क्षताशौच

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षताशौच¦ न॰ क्षतनिमित्तमशौचम्। व्रणादिक्षतकृतेस्मृत्युक्ते अशौचे।
“सव्रणः सूतकी सूयी मत्तोन्मत्तर-जत्वलाः। मृतबन्धुरबन्धुश्च वर्ज्यान्यष्टौ स्वकालतः” प्रा॰ त॰ देवलः। अशुचित्वमप्याह तत्रैव सएव।
“दन्त-लग्नमसंहार्यं लेपं मन्येत दन्तवत्। न तत्र बहुशःकुर्यात् यत्नमुद्धरणे पुनः। भवेदशौचमत्यन्तं तृणवेधात्व्रणे कृत। तृणवेधादित्युपलक्षणं व्रणहेतुक्षतमात्रस्य। अस्यापवादः
“चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्म्म-णि। महातीर्थे तु संप्राप्ते क्षतदोषो न विद्यते” प्रा॰ त॰पुलस्त्यः। मृतानां पिण्डकर्म्मणि निरवकाशत्वात् चिता-पिण्डोदकदानादौ। संप्राप्ते नियतवासादिना सम्यक्प्राप्ते।

"https://sa.wiktionary.org/w/index.php?title=क्षताशौच&oldid=497847" इत्यस्माद् प्रतिप्राप्तम्