क्षतोदर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षतोदरः, पुं, (क्षतं शर्करादिभिन्नं उदरमत्र रोगे । अथवा क्षतात् स्रुतात् जातं उदरं उदररोग- विशेषो यत्र ।) उदररोगविशेषः । तस्य सामा- न्यरूपमाह । “आध्मानं गमनेऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निना । शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः । दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि” ॥ सन्निकृष्टनिदानपूर्ब्बिकां संख्यामाह । “पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः । सम्भवन्त्युदरान्यष्टौ तेषां लिङ्गं पृथक् शृणु” ॥ क्षतोदरमाह । “शल्यं तथान्नोपहितं यदन्नं भुक्तं भिनत्त्यागतमन्यथा वा । तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ॥ नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम् । एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्त्तयतो निबोध” ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षतोदर¦ क्षतजाते उदररोगभेदे उदरशब्दे
११
५० पृ॰ विवृ-तिः। शल्यमित्यादि तत्रत्यं सुश्रुतवाक्यं भावप्र॰ व्या-[Page2358-b+ 38] ख्याय चरकमुनि सम्मतिप्रदर्शनेन विशेष उक्तो यथा
“शल्यं कण्टककर्करादि। अन्नोप हतं भुक्तं यत् अन्नंभिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं, शर्कराभिरितरथापि यदन्नं मिनत्ति तत्। उपलक्षणम्। जम्भणमत्यशनं वा यदन्त्रम्भिनत्ति। यतौक्तञ्चरकेणशर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः। भिद्येतान्त्रंयदा भुक्तं जृम्भयात्यशनेन चेत्”। तस्मात् भिन्नादन्त्रात्। गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः। दाल्यति विदार्य्यत एव। पदसिद्धिरार्षत्वात्। एतत्क्षतोदरन्तन्त्रान्तरे परिस्राव्युदरम्प्रदिष्टम्”
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षतोदर/ क्षतो n. injury of the bowels by any indigestive substance , flux , dysentery Bhpr.