क्षत्त्रबन्धुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्त्रबन्धुः, पुं, (क्षत्त्रियस्य बन्धुरिव ।) निन्दितक्षत्त्रि- यः । इत्यमरटीका । (यथा, मार्कण्डेये । ८ । ७४ । “क्षत्त्रवन्धो ! ममेतां त्वं सदृशीं यज्ञदक्षिणाम् । मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्” ॥ क्षत्त्रं राज्यं देहो वा बन्धुरिवास्य ।) क्षत्त्रमात्रम् । (यथा, मनुः । २ । ३८ । “आषोडशात् ब्राह्मणस्य सावित्री नातिवर्त्तते” । आद्वाविंशात् क्षत्त्रबन्धोराचतुर्विंशतेर्विशः ॥)

"https://sa.wiktionary.org/w/index.php?title=क्षत्त्रबन्धुः&oldid=129580" इत्यस्माद् प्रतिप्राप्तम्