क्षत्त्रवनि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षत्त्रवनि¦ सु॰ क्षत्त्रं वनति
“छन्दसि वनसनरक्षिमन्थाम्” पा॰ कर्म्मण्युप पद्ये इन्।
१ क्षत्त्रजातिभागिनि।
“ब्रह्मवनि त्वा क्षत्रवनि रामस्तोषवनि” यजु॰
२७ । सुपां सुलुगिति” पा॰ सर्वत्र अमो लुक्। क्वचित् कर्म्मणि वाच्ये-ऽपि इनि।
२ क्षत्त्रस्येव्य
“ध्रुवमसि पृविवीं दृंहब्रह्मवनि त्वा क्षत्त्रवनिः” यजु॰
१ ।
१७ ।
“क्षत्रेण वन्यतेपुरोडाशनिष्पत्त्यर्थं क्षत्रवनि” वेददी॰
