सामग्री पर जाएँ

क्षुरकर्म्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

क्षुरकर्म्मन्¦ न॰ क्षुरसाध्यंकर्म्म। केशच्छेदने। क्षुरकर्म्मणि विहितनक्षत्रादिकं मू॰ चि॰ पी॰ धा॰ उक्तं यथा
“दन्तक्षौरनखक्रियात्र विहिता चौलोदिने वारभे पा-तङ्ग्याररवीन्विहाय नवमङ्घस्रञ्च सन्ध्यान्तथा। रिक्तांपर्वनिशां निरासनरणग्रामप्रयाणोद्यतस्नाताभ्यक्त कृता-शनैर्नहि पुनः कार्य्या हितप्रेप्सुभिः”। मू॰ चि॰
“चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वा-त्तदुक्ते लग्नेऽपि च दत्तक्षौरनखक्रियात्र विहितीक्ता।
“येषु येषु प्रशंसन्ति क्षुरकर्म्म महर्षयः। तेषु तेषु प्रशं-सन्ति नखदन्तविलेखनमिति”। येषु येषु वारनक्षत्रलग्ना-दिष्वित्यर्थः। अथ क्षौरनिषिद्धकाल उच्यते। पात-ङीति। पतङ्गः पक्षिसूर्य्ययोरित्यभिधानात् पतङ्गःसूर्य्यस्तस्यापत्यं पातङ्गिः शनिः आररवी पसिद्धौ। तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वात् तेषां लग्ना-नि मकरकुम्भमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहाये-त्यर्थः। उक्तञ्च वसिष्ठेन
“हस्तत्रये पुष्यपुनर्वसौ चशशाङ्कविष्णुत्रितयाश्विनीषु। पौष्णेन्द्रधिष्ण्ये क्षुरकर्मशस्तंव्यर्कारशन्यंशकवारलग्ने” इति। अतः शुभग्र-हाणां बारलग्नांशे क्षौरं कार्य्यमिति फलितोऽर्थः। वा-रफलानि गर्गोक्तानि
“भानुरायुः क्षपयति मासं, सप्त-शनैश्चरः। भौमोमासाष्टकं हन्ति ज्ञोयच्छेत्पञ्चमासकम्। एकादश कविर्दद्यातकते तु क्षौरकर्म्मणीति”। तुल्यन्या[Page2386-b+ 38] यत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि। न केवल-मायुर्हानिः किन्तु शस्त्रवातोऽपि पापवारेषु। तदुक्तंवसिष्ठेन
“आदित्यभौमार्किदिनेषु धीमान्न दन्तकाष्ठक्षुरकर्म कार्य्यम्। कुर्वन्नवाप्नोति फलं समग्रं शस्त्रेणसम्यक् स्वशरीरघातम्”। तथा नवमंघस्रं च विहाययद्दिने क्षौरं कृतं ततो नवमदिने पुनः क्षौरं न कार्य्यम्।
“उत्कटे भूघिते चैव यानगो नवमेऽहनीति” नारदोक्तेः। यत्तु नवमे नवम्यामिति व्याकुर्वन्ति तदयुक्तं दिनपदो-पादानाप्रसङ्गात्। दिनपदं तिथिपरमिति चेन्न रिक्तायाःवक्ष्यमाणस्वतन्त्रनिषेधानुपपत्तेः। ननु पृथगुपादानात्नवम्यां सर्वथा क्षौरं निन्द्यमेव चतुर्थीचतुर्दश्योस्तुतथा नेति चेन्न
“चतुर्थीं चैव षष्ठीं च अष्टमीञ्च चतु-र्दशीम्। तथा पञ्चदशीञ्चैव व्रह्मचारी भवेत्सदा। श्म-श्रुकर्म्म शिरोऽभ्यङ्गन्दन्तधावनमैथुनम्। जन्तुश्चैतानि यःकुर्य्याल्लक्ष्मीस्तत्र न तिष्ठति”। क्षौरे व्यासवचने चतुर्थीचतुर्द्दश्योः सर्वथा निषेधाभिधानात्। अतएवामुमर्थं स्फुट-माह पराशरः
“क्षौराहान्नवमे त्वह्नि नेष्टमात्ययिकेष्वपी त” तथा सन्ध्यां प्रातः सन्ध्यां सायं सन्ध्याञ्च विहाय एवंरिक्ताम् विहाय पर्वाण्यपि निशां रात्रिमपि विहायेत्यर्थःअथाधिकारिणो निरूप्यन्ते हितप्रेप्सुभिः स्वशुभोदर्क-मिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या। कीदृशैः आसनङ्क{??}वलादिः तद्रहितैः रणः संग्रामः ग्रा-मो जनपदविशेषः प्रयाणमर्थयात्रा एतदर्थमुद्यतैः कृ-तोद्योगैः स्नातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः यत्तुक्षौरार्थमेव स्नानं विधीयते प्रायश्चित्तादौ च तत्र नायंनिषेधस्तथैव तस्य विधानात्। अभ्यक्तैः कृत्तैलाभ्यङ्गैःकृताशनैः कृतभोजनैः सुवर्णाद्यलङ्कारभूषितैरित्यपि-ध्येयम्। यदाह वराहः
“न स्नातमात्रगमनोत्कटभूषितानामभ्यक्तभुक्तरणकालनिरासनानम्। सन्ध्या-निशाशनिकुजार्कदिने च रिक्ते क्षौरं हित न नवमे-ह्नि न चापि विष्ट्यामिति” उत्कटानां कुक्कुटासनवदवस्थि-तानाम्। सन्ध्यालक्षणमपि वराहेणोक्तम्
“अर्धास्तमिता-दुदितात्सूर्यादस्पष्टभं नभोयावत्”। वृद्धगर्गः
“शन्यार-रविवारेषु रात्रौ पाते व्रतेऽहनि। श्राद्धाहे प्रतिप-द्रिक्ताभद्रा क्षौरंविवर्जयेत्। षष्ठ्यमापूर्णिमापातश्चतु-र्दश्यष्टमी तथा। आसु सन्निहितं पापं तैले मांसे क्ष-रे भगे इति”। पी॰ धा॰
“क्रतुपाणिपाडमृतिबन्धमोक्षणे क्षुरकर्म्म च{??}ज-[Page2387-a+ 38] नृपाज्ञया चरेत्। शववाहतीर्थगमसिन्धुमज्जनं क्षुर-माचरेन्न खलु गर्भिणीपतिः”। मू॰ चि॰(
“अथ केषाञ्चिन्निमित्तविशेषे क्षौरस्य विधिनिषेधौमञ्जुभाषिणीच्छन्दसाह। क्रतुपाणीति अत्र पूर्ब्बार्द्धेसत्यपि निषिद्धवारादौ एषु कर्म्मसु क्षुरकर्म क्षौरंसद्यःकार्य्यमिति वाक्यार्थः क्व?क्रतौ यज्ञे विपाज्ञया क्षौरम्। तथा पाणिपीडी विवाही लक्षणया ततः प्राग्भाविनिगोदानकर्म्मणि केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरंक्षौरमित्याहुः अतएव शाखाविशेषेण विवाहे क्षौरमुक्तमित्यूचुः। तथा च श्रुतिः
“मुण्डयितारः श्रविष्ठायनाबधूमूढामित्यादि”। मृतौ मातापित्रेर्मरणे बन्धमोक्ष-णे कारागृहे बन्धस्य यदामोचनं भवेत्तदा द्विजा-ज्ञया राजाज्ञादावपीति बोध्यम नृपोराजा तस्या-ज्ञया चौरादेः क्षौरं कार्य्यमेव यदाह नारदः
“नृप-विप्राज्ञया यज्ञे मरणे बन्धमोक्षणे। उद्वाहेऽखिलवार-र्क्षतिथिषु क्षौरमिष्टदमिति”। धर्म्मशास्त्रे
“गङ्गायांभास्करक्षत्रे मातापित्रोर्मृतेऽहनि। आधाने सोमपानेच षट्सु क्षौरं विधीयते” इति। अथ शवेति गर्भिणीगर्भवती तस्याः पतिर्भर्त्ताशववाहं मृतकवहनं तीर्थयात्रांउपलक्षणत्वाद्विदेशगमनमपि। सिन्धुमज्जनम् समुद्रस्नानं, क्षुरं क्षुरकर्म एतानि कर्म्माणि न आचरेन्नकुर्य्यात्। यदाह वसिष्ठः
“गृहनिर्माणमुदधिस्नानंचौलं सुतस्य तु। तीर्थयात्रां नखश्मश्रु न कुर्य्याद्ग-र्भिणीपतिः”।
“सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाह-नम्। विदेशगमनञ्चैव न कुर्य्याद्गर्भिणीपतिः” धर्म्मशास्त्रेतु विशेषतः
“राजा यीगी पुरन्ध्री च मातापित्रीस्तु-जीवतोः। मुण्डनं सर्वतीर्थेषु न कुर्य्याद्गर्भिणीपतिः” अयञ्च क्षौरादिनिषेधो गुर्विणीपतेः सप्तमासादूर्ध्वं नप्राक्, यदुक्तं नारदीये
“वपनं तीर्थयात्राञ्च वर्जयेद्गुर्विणीप-तिः। श्राद्धञ्च सप्तसान्मासादूर्ध्वं नान्यत्र वेदवित्”। श्राद्धंश्राद्धभोजनम्। इदमुत्तरार्द्धं गर्भाधानप्र करणे वक्तव्यमपि प्रसङ्गादत्रैवोक्तं ग्रन्थकृतेति”। पी॰ धा॰
“नृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पञ्चमे पञ्चमेऽ-स्योदये वा। षडग्निस्त्रिमैत्रोऽष्टकः पञ्चपित्रोऽव्दतोऽ-ब्ध्यर्यमा क्षौरकृन्मृत्युमेति”। मू॰ चि॰
“अथ क्षौरे राज्ञां विशेषं सर्वथा वर्ज्यनक्षत्राणि चभुजङ्गप्रयातेनाह नृपाणां हितमिति क्षौरमे क्षौर-नक्षत्रे विहिते सति पञ्चमे पञ्चमे एव दिने श्मश्रुकर्म्म-[Page2387-b+ 38] मुखशोभाकरि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तंयदाह वशिष्टः
“महीभृतां पञ्चमे पञ्चमेऽह्निक्षौरं चकार्य्यंहितमुक्तभेषु” नतु पञ्चमे इति वीपसोक्त्या नियमप्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्म कार्य्यमितिउक्तं च वसिष्ठेन
“न लभ्यते चेच्च तदुक्तधिष्ण्यं तद्भोदयेवा निखिलं विधेयमिति” उदयशब्देन मुहूर्त्त इति ऋ-जवोव्याकुर्वते तदाह गर्गः
“क्षौरकर्म महीशानां पञ्चमेपञ्चमेऽहनि। कर्त्तव्यं क्षौरनक्षत्र ऽप्यथवा तन्मुहूर्त्तके, इतितेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्त्ते इत्यर्थः। तांश्च मुह्र्तान् विवाहप्रकरणे वक्ष्यति। अत्र क्षौरपदंश्मश्रुकर्मपरम्।
“राजा योगी पुरन्ध्री च मातापित्रोस्तुजीवतोः। मुण्डनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिरिति” राज्ञो मुण्डननिषेधात्। अतएवोक्तं श्रीपतिना
“श्मश्रुकर्मपञ्चमे च पञ्चमेऽह्नि च भूभृताम्। क्षौरभस्योदये वाऽपिस्यान्निन्द्यतारका न चेत्” इति। निन्द्यतारका जन्म-विपदादितारका। अन्ये त्वेवं व्याचक्षते अस्योदयेवेति अस्य क्षौरभस्योदये लग्ने। यथा मेषलग्नं त्रिंशत्भा-गात्मकं तत्राद्यास्त्रयोदशभागा

१३ ,

२० सविंशतिलिप्तायावता कालेन मेषलग्ने उदयं यान्ति तावदश्विनीनक्षत्र-मुदयं यातीत्यर्थः। तदनन्तरं तावन्त एवांशा यावताकालेनोदयं यान्ति तावद्भरण्युदय इत्यनेन न्यायेनसर्वेषां नक्षत्राणामुदयाज्ञेयाः। इयं च व्याख्यावराहपद्यव्याख्यावसरे भट्टोत्पलेनाभ्यधायि। पितृचर-णास्त्वेवंव्याकुर्वते। यस्मिन्काले अश्विन्या उदय। क्षिति-जसंबन्धः संपद्यते तं समयमारभ्य यावद्भरण्या उदयः-क्षितिजसंबन्धस्तदन्तराले यावान्कालः सोऽश्विन्या उदयउच्यते। एवं सत्युदयग्नद्वयांशान्तरालाद्गणितमार्गेणयावानिष्टकाल आगच्छेत्स एव तत्तन्नक्षत्रोदय इति निष्कृ-ष्टार्थ इति। नक्षत्रस्योपलक्षणत्वाच्छुभवारासम्भवेऽपि त-द्धोरायां कार्यम् उक्तञ्च नारदेन
“यस्य स्वेटस्ययत्कर्म वारे प्रोक्तं विधीयते। ग्रहस्य क्षणवारेऽ-पि तस्य तत्कर्न सर्वदेति”। क्षणवारः कालहोरा। एवं सति निषिद्धनक्षत्रवारेष्वपि प्रथमश्मश्रुकर्म का-र्यमिति युक्तमुत्पश्यामः। षडग्निरिति। अग्निः कृत्ति-का क्षौरावृत्त्या षड्वारं कृत्तिका यस्य। एवं त्रीणिमैत्राण्यनुराधायस्य अष्टौ का रोहिण्योयस्य। पञ्च पित्र्याणि मघायस्य। अब्धयश्चत्वारोऽर्यमाण उत्तराफाल्गुन्योयस्य सएतादृशः क्षौरकृत् अब्दतः वर्पानन्तर मृत्युं[Page2388-a+ 38] मरणमेति प्राप्नोति यदाह वसिष्ठः
“अष्टाब्जकश्च पितृ-पञ्चकश्च षड्वह्निधिष्ण्यश्चतुरर्यमर्क्षः। त्रिमैत्रभः पद्मजसंनिभोऽपि क्षौरी नरोऽव्दान्निधनं गतः सः” इति। पद्मजो ब्रह्मा तत्सन्निमस्तादृशस्तदुपादानं कैमुतिकन्या-यसूचनार्थम् ननु रत्नमालापद्ये
“षट्कृत्तिकः पञ्चमघस्त्रिमैत्रो ब्रह्माष्टकोयश्चतुरुत्तरश्च। क्षौरी स वर्षं चतुरा-ननोऽपि न प्राणितीति प्रचुरः प्रवादः” इत्येवं सामान्यतःतिसृणामप्युत्तराणां ग्रहणाद्विरोधः इति चेत् मैवंअत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन सहै-कवाक्यतानुरोधाच्चोत्तराफालगुन्येव गृह्यते नाषाढभाद्र-पदे। यत्र तु वचनान्तरविरोधो नास्ति पौष्णमारुतमघोत्तरान्वितैरित्यादौ तत्र सामान्यतः सर्वासामुत्तराणांग्रहणं भवति” पी॰ धा॰(
“प्राचीमुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौ-रमनुत्कटस्थः। उत्तरात्रितययाम्यरोहिणीरौद्रसार्पपि-तृभेषु चाग्निभे। श्मश्रुकर्म्म सकलं विवर्जयेत् प्रेतकार्य्यमपि बुद्धिमान्नरः” ज्यो॰ त॰

"https://sa.wiktionary.org/w/index.php?title=क्षुरकर्म्मन्&oldid=311816" इत्यस्माद् प्रतिप्राप्तम्