सामग्री पर जाएँ

क्षैमिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

क्षैमिक¦ त्रि॰ क्षेमेण निर्वृत्तं ठञ्।

१ लब्धस्य रक्षणोप-योगिनि

२ विद्यमानसत्ताकस्य वस्तुनः स्व्यधिकरणे स्वति-शिष्टवुद्धिनियामकसम्बन्धव्यवस्थापननिर्वाह्ये जन्यत्वे च। यथा दुःखात्यन्तामावस्य मोक्षत्ववादिमते अत्यन्ताभाव-स्याजन्यत्वेऽपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधि-करणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूपसम्बन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्यक्षैमिकी तत्त्वज्ञानसाध्यता। एवं कृतिसाध्यत्वस्य विध्य-र्थत्वमते
“एकादश्यामुपवसेत्” इत्यादौ अहोरात्रभोजनाभावस्य क्षैमिकं कृतिसाध्यत्वम्।
“भावोयथाऽ-[Page2410-a+ 38] भावः कार्य्यवत् कारणं मतः” इत्युदयनाकार्य्यैरमावमात्रस्यदृष्टान्तविधया कार्य्यत्वोक्तिः क्षैमिकविषया। एतेनप्रायश्चित्तविवेकटीकायां श्रीकृष्णतर्कालङ्कारेणात्यन्ता-भावस्य क्षैमिकजन्यत्वस्य निराकरणम् निरस्तम्प्रतियोग्यकालीनस्वरूपसम्बन्धविशेषस्यैवात्यन्ताभावविशि-ष्टबोधनियामकत्वेन तादृशसम्बन्धस्य तत्त्वज्ञानकृत्या-दिनिर्वाह्यत्वान् स्वाधिकरणे सति हि दुःखे भोजनेवा तादृशस्वरूपसम्बन्धाभावात् विशिष्टबुद्धेरनुदयात्तस्य तत्त्वज्ञानादिप्रयोज्यत्वमेवमन्यत्रोहाम्

"https://sa.wiktionary.org/w/index.php?title=क्षैमिक&oldid=313003" इत्यस्माद् प्रतिप्राप्तम्