क्ष्वेला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्ष्वेला¦ स्त्री क्ष्वेल--अ। क्रीडायाम्। खार्थे क क्ष्वेलि-कावत्र।
“क्षेलिकया मृषा समाधिना आमीलित-दृशं प्रेमसंरम्भेण चकितचवित आगत्य पृवदपरुष-विषाणाग्रेण लुठति” भाग॰
५ स्क॰
८ अ॰। गौरा॰ ङीष्क्ष्वेलीत्यप्यत्र।
“बाहुप्रसार परिरम्म करालकोरुनीविस्त-नालभननर्म्मनस्वाग्रपातैः। क्ष्वेल्यावलोकहसितैद्रव्रज-सुन्दरीणामुत्तम्भयन् रतिपतिं रमयाञ्चकार” भाग॰
१० स्क॰
२९ अ॰। इति श्री तारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते वाचस्पत्ये ककारादिशब्दार्थसङ्कलनम्। [Page2413-a+ 37] खखकारः
“जिह्वामूले तु कुः प्रोक्तः” शिक्षोक्तेः कण्ठमूलो-च्चार्य्यः जिह्वामूलपदस्य कण्ठमूलपरत्वात्। अस्योच्चारणेआभ्यन्तरप्रयत्नः स्पृष्टता (जिह्वामूलस्पर्शः) बाह्यप्रयत्नाश्च
“खयां यमः खयः + कं पौ विसर्गः शर एव च। एवे श्वासानु-प्रदाना अघाषाश्च विवृण्वते। कण्ठम्” इति शिक्षोक्तेः श्वासा-घाषबिवाराः
“अयुग्मावर्गयमगायणश्चाल्पासवः स्मृताः” इति शिक्षोक्तेः वर्गमध्ये युग्मवर्णत्वात् महाप्राणश्च। खादिशब्दे परे पूर्वस्थ विसर्गस्य स्थाने जिह्वामूलीयः यथामणे + खनिः समासे तु वा सत्वञ्च। भा + खरः भास्खरःभाःखर इति। वर्ण्णाभिधाने अस्य वाचकाः शब्दाद-र्शिताः यथा
“खः प्रचण्डः कामरूपी शुद्धिर्वह्निः सर-स्वती। आकाशैन्द्रियं दुर्गा चण्डी सन्तापिनी गुरुः। शिखण्डी दन्तोजातीशः कफोणिर्गरुडोगदी। शून्यंकपाली कल्याणी सूर्पकर्णोऽजरामरः। शुभाग्नेयचण्डलिङ्गे जनो झङ्कारखड्गकौ”। अस्य मातृका-वर्णान्तर्गतत्वेन ध्येयरूपं वर्णोद्धारतन्त्रे उक्तं यथा
“बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम्। वराभयकरींनित्यामीषद्धास्यमुखीं पराम्। एवं ध्यात्वा खस्वरूपांतन्मन्त्र दशधा जपेत्”। मातृकान्यासे चास्य बाहौन्यस्यता। श्लोकरचनायां तस्याद्यवर्णतयोपन्यासे ग्रन्थ-कर्त्तुः लक्ष्मीकरता
“कः खोगोघश्च लक्ष्मीं वितरतिवियशोङःसुखं चः सुखं छः” वृत्तर॰ टीकावृतधृवाक्यात्।
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a mind-born mother. M. १७९. २५.
