खचरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचरः, पुं, (खे आकाशे चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) मेघः । इति शब्दचन्द्रिका ॥ वायुः । राक्षसः । सूर्य्यः । एतेषां प्रमाणं यथा । महाभारते द्रोणपर्व्वणि । “खचरस्य सुतस्य सुतः खचरः खचरस्य पिता न पुनः खचरः । खचरस्य सुतेन हतः खचरः खचरी परिरोदिति हा खचर ! ॥” आकाशगामिनि त्रि । यथा । स्मृतिः । “पवनो दिक्पतिर्भूमि-राकाशं स्वचरामराः ॥” रूपकभेदः । यथा । सङ्गीतदामोदरः । “खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा ॥ शान्तेऽथवा हास्यरसे भवेदेष दशाक्षरः ॥”

"https://sa.wiktionary.org/w/index.php?title=खचरः&oldid=130344" इत्यस्माद् प्रतिप्राप्तम्