खट्वाङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गः, पुं, (खट्वाङ्ग इत्याख्याऽस्य । शिवस्य खट्वाङ्गास्त्रवत् सर्व्वत्र दुर्लङ्घ्यशासनत्वात् अमोघ- वीर्य्यवत्त्वाच्चास्य तथात्वम् ।) सूर्य्यवंशीयराज- विशेषः । स तु विश्वसहराजपुत्त्रः । यथा, -- श्रीमद्भागवते । ९ । ९ । ४१ । “ततो दशरथस्तस्मात् पुत्त्र ऐडविडस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्त्यभूत् ॥”

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गः&oldid=130410" इत्यस्माद् प्रतिप्राप्तम्