खण्डकाद्यलौह
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
वाचस्पत्यम्[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खण्डकाद्यलौह¦ पु॰ चक्रदत्तोक्ते खण्डपक्वलौ हभेदरूपेऔषधभेदे तल्लक्षणं यथा
“शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः। तालमूली च[Page2461-b+ 38] गायत्री त्रिफलायास्त्वचस्तथा। भार्गी पुष्करमूलञ्च पृथकपञ्च पलानि च। जलद्रोणे विपक्तव्यमष्टमांशावशेषितम्। दिव्यौषधहतस्यापि माक्षिकेन हतस्य वा। पलद्वा-दशकं देयं रुक्मलौहस्य चूर्णितम्। खण्डतुल्यं घृतंदेयं पलषोडशिकं बुधैः। पचेत् ताम्रमये पात्रे गुड-पाको यथामतम्। प्रस्थार्द्धं मधुनो देयं शुभाश्मजतुकंत्वचम्। शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजीपलंपलम्। त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशसम्। चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत्। यथाकालं प्रयुञजीत विडालपदकं ततः। गव्यक्षीरानु-पानञ्च सेव्यं मांसरसं पयः। गुरुवृष्यानुपानानि स्निग्धंमांसादिवृंहणम्। रक्तुपित्तं क्षयं कासं पक्तिशूलविशेषतः। वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्। श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरन्तथा। आनाहंरक्तसंस्राषं चाम्लपित्तं निहन्ति च। चाक्षुष्यं वृंहणंवृष्यं माङ्गल्यं प्रीतिवर्द्धनम्। आरोग्यपुत्रदं श्रेष्ठंकामाग्निबलवर्द्धनम्। श्रीकरं लाघवकरं खण्डकाद्यंप्रकीर्त्तितम्। छागं पारावतं मांसं तित्तिरिः क्रकराःशशाः। कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत्। नारिकेलपयःपानं सुनिषन्नकवास्तुकम्। शुष्कमूलक-जीराख्यं पटोलं वृहतीफलम्। फलं वार्त्ताकुपक्वाम्रंखर्जूरं स्वादु दाडिमम्। ककारपूर्वकं यच्च मांसञ्चानूप-सम्भवम्। वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता। लोहान्तरवदत्रापि पुटनादिक्रियेष्यते”।