खाद

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाद, ऋ भक्षणे । इति कविकल्पदुमः ॥ (भ्वां- परं-सकं-सेट् । ऋदित् ।) ऋ, अचखादत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाद¦ भक्षणे भ्वा॰ पर॰ सक॰ सेट्। खादति अखादीत्चखाद। खाद्यः खादकः खादनम्। णिचि। खादयतिऋदित् अचखादत् त।
“सक्तून् खादति यश्च तस्यरिपवोनाशं प्रयान्ति घ्रुवम्” ति॰ त॰
“न खादेः पर-शस्यानि” वृषोत्सर्गमन्त्रः।
“देवान् पितन् समभ्यर्च्य खादन्मांसं न दोषभाक्” मनुः।
“स हि (उशस्तिः) कुल्माषान्खादन्तं विभिक्षे” छा॰ उप॰।
“मांसानि च न खादेद्यस्तयोःपुण्यं सभं स्मृतम्” मनुः।
“आशङ्कमानो वैदेहीं खादितांनिहतां मृताम्” भट्टिः।
“तादृशं भवति प्रेत्य वृथा मांसानिखादकः” मनुः। षष्ट्यभावश्छादसः। खादनस्य हिं-साव्यभिचरितत्वात् हिंसार्थत्वात् अकित्त्वेऽपि वा॰चुरा॰ तेन स्वार्थे णिच् खादयति।
“दुर्बलंवलवन्तो हि मत्स्यामत्स्यं विशेषतः। खादयन्ति” मत्स्यपु॰
“मां खादय मृगश्रेष्ठ! दुःखादस्माद्विमोचय” भा॰ व॰

६१ अ॰।
“देवराजो मया दृष्टोवारिवारणमस्तके। खादयन्नर्कपत्राणि” विदग्धमु॰। अस्य भक्षणार्थत्वेऽपि आदिखाद्योर्न” वार्त्ति॰ णिचि प्रयो-ज्यकर्त्तुः न कर्मत्वम्। खादयति अन्नं वटुना”
“वयोभिःखादयन्त्यन्ये”
“तां श्वभिः खादयेद्राजा” मनुः।
“मारयिष्यामि वैदेहीं खादयिष्यामि राक्षसैः” भट्टिः। खादनञ्च कठि-नादि द्रव्यस्य गलाधःसंयोगानुकूलव्यापारबिशेषः प्रति-षिद्धभक्षणविप्रये तु वदनमात्रप्रवेशेऽपि प्रायश्चित्तार्द्धमितिभेदः यथाह प्रा॰ त॰
“यद्यपि अन्नादीनां कण्ठादधो-नयनमेव भक्षणं न तु निष्ठीवनाय शुण्ठ्यादेः कपोल-धारणं, तथाविधे प्रयोगाभावात्। तथापि पापविषये तथा-विधानुबन्धेऽपि प्रायश्चित्तं, ब्रह्मबधे तथा दर्शनात् यथायाज्ञवल्क्यः
“चरेद्व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः”। अत्र हननप्रतिषेधेन यथा तदङ्गभूताध्यवसायादेरपि प्रति-षिद्धत्वात् प्रायश्चित्तविधानं तथाऽत्रापि भक्षणप्रतिपेधेन[Page2475-b+ 38] तदङ्गभूताव्यभिचारितान्नादिसंयोगस्यापि प्रतिषिद्ध-त्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायश्चित्तं, मिता-क्षरायायामप्येवम्। अतएवोक्तं
“जिघ्रन्नपि सुरां कश्चित्पिवतीत्यभिधीयते। यावन्न क्रियते वक्त्रे गण्डूषस्यप्रवेशनम्” इति। अत्र वक्त्रे गण्डूषस्य प्रवेशनेन पानाति-देशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः। ततश्च विप्रदण्डो-द्यमे कृच्छ्रमतिकृच्छ्रं निपातने” इति याज्ञवल्क्योक्तेःदण्डोद्यमे दण्डनिपातप्रायश्चित्तार्द्धवत् भक्षणोद्यमेकण्ठादधोनयनसम्भावनारहिते अर्द्धं प्रायश्चित्तं ज्ञेयम्”

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाद (ऋ) खादृ¦ r. 1st cl. (खादति) To eat.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाद [khāda], a. Eating, devouring.

दः Eating, chewing.

Food; यत् पुरा परिवेषात् खादमाहरन्ति Av.9.6.12.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाद mfn. " eating , devouring " ifc. See. अमित्र-and वृत्र-खाद

खाद m. eating , devouring AitBr. v , 12 , 10

खाद m. food AV. ix , 6 , 12 S3Br. xiii , 4 , 2 , 17.

"https://sa.wiktionary.org/w/index.php?title=खाद&oldid=498541" इत्यस्माद् प्रतिप्राप्तम्