गतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतिः, स्त्री, (गम् + भावे क्तिन् ।) गमनकर्म्म । (यथा, रघुवंशे । १ । ४ । “अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्ब्बसूरिभिः । मणौ बज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥”) तत्पर्य्यायः । वर्त्तते १ अयते २ लोटते ३ लोठते ४ स्यन्दते ५ कसति ६ सर्पति ७ स्यमति ८ स्रवति ९ स्रंशते १० अवति ११ श्चोतति १२ ध्वंसति १३ वेनति १४ मार्ष्टि १५ गुरण्यति १६ शवति १७ कालयति १८ पेलयति १९ कण्टति २० पिस्यति २१ विस्यति २२ मिस्यति २३ प्रवते २४ प्लवते २५ च्यवते २६ कवते २७ गवते २८ नवते २९ क्षोदति ३० नक्षति ३१ सक्षति ३२ म्यक्षति ३३ सचति ३४ ऋच्छति ३५ तुरीयति ३६ चतति ३७ अतति ३८ गाति ३९ इयक्षति ४० सश्चति ४१ सरति ४२ रंहति ४३ यतते ४४ भ्रमति ४५ धजति ४६ रजति ४७ लजति ४८ क्षियति ४९ घमति ५० मिनाति ५१ ऋण्वति ५२ ऋणोति ५३ स्वरति ५४ सिसर्त्ति ५५ वेषिष्टिः ५६ योषिष्टिः ५७ ऋणाति ५८ ऋयते ५९ तेजति ६० दध्यति ६१ दध्नोति ६२ युध्यति ६३ घन्वति ६४ अरुषति ६५ आर्य्यन्ति ६६ डीयते ६७ तकति ६८ टीयते ६९ इषति ७० फणति ७१ हनति ७२ अर्द्धति ७३ मर्द्दति ७४ ससृते ७५ नसते ७६ हर्षति ७७ इयर्त्ति ७८ ईर्त्ते ७९ ईङ्खते ८० ज्रयति ८१ स्वात्रति ८२ गन्ति ८३ आगनीगन्ति ८४ जंगन्ति ८५ जिन्वति ८६ जसति ८७ गमति ८८ ध्रति ८९ ध्नाति ९० ध्रयति ९१ वहते ९२ रथर्य्यति ९३ जेहते ९४ स्वःकति ९५ क्षुम्पति ९६ प्साति ९७ वाति ९८ याति ९९ दृयति १०० द्राति १०१ डूलति १०२ एजति १०३ जमति १०४ जवति १०५ वञ्चति १०६ अनिति १०७ पवते १०८ हन्ति १०९ सेधति ११० अगन् १११ अजगन् ११२ जिगाति ११३ पतति ११४ इन्वति ११५ द्रमति ११६ द्रवति ११७ वेति ११८ हयन्तात् ११९ एति १२० जगायात् १२१ अयुथुः १२२ । इति द्वाविंशं शतं गतिकर्म्म । इति वेदनिघण्टौ २ अध्यायः ॥ (गम्यतेऽस्या- मिति । गम् + अधिकरणे क्तिन् ।) मार्गः । (यथा, भगवद्गीतायाम् । ८ । २६ । “शुक्लकृष्ण गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्यया वर्त्तते पुनः ॥”) दशा । (यथा, तत्रैव । ६ । ३७ । “अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण ! गच्छति ॥” गम्यते ज्ञायतेऽनया । करणे क्तिन् ।) ज्ञानम् । (यथा, श्रीमद्भागवते । ७ । ५ । ३१ । “न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥ पूर्ब्बाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नी- यात् ॥ क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोर- पापाख्याः । सप्तपराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदैवानि ॥ सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः । घोराश्रवणस्त्वाष्ट्रं वसुदेवं वारुणं चैव ॥ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ चत्वारिंशत्त्रिंशद्द्बिसमेता विंशतिर्द्विनवकञ्च । नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥ ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवल- स्यैताः । पञ्च चतुर्द्ब्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥ ऋज्वी हिता प्रजानामतिवक्रार्थं गतिर्वि- नाशयति । शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥ पौषाषाढश्रावणवैशाखेष्विन्दजः समाघेषु । दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु ॥ कार्त्तिकेऽश्वयजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौरहुतभुग्गदतोय- क्षुद्भयानि च तदा विदधाति ॥ रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः ॥ हेमकान्तिरथवा शुकवर्णः सम्यकेन मणिना सदृशो वा । स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥” अन्येषामपि ग्रहाणां गतिस्तत्रव क्रमशो विशे- षतो द्रष्टव्या ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतिः [gatiḥ], f. [गम्-भावे क्तिन्]

Motion, going, moving, gait; गतिर्विगलिता Pt.4.78; अभिन्नगतयः Ś.1.14; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11 do not mend their slow gait (do not mend their pace); so गगनगतिः Pt.1; लघुगतिः Me.16; U.6.23.

Access, entrance; मणौ वज्रसमुत्कीर्णे सूत्रस्येवा- स्ति मे गतिः R.1.4.

Scope, room; अस्त्रगतिः Ku.3.19; मनोरथानामगतिर्न विद्यते Ku.5.64; नास्त्यगतिर्मनोरथानाम् V.2.

Turn, course; दैवगतिर्हि चित्रा, Mu.7.16.

Going to, reaching, obtaining; वैकुण्ठीया गतिः Pt.1 obtaining Heaven.

Fate, issue; भर्तुर्गतिर्गन्तव्या Dk.13.

State, condition; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; Pt.1.16.

Position, station, situation, mode of existence; परार्ध्यगतेः पितुः R.8.27; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् Bh.2.14; Pt.1.41,42.

A means, expedient, course, alternative; अनुपेक्षणे द्वयी गतिः Mu.3; का गतिः what help is there, can't help (often used in dramas) Pt.1.319; अन्या गतिर्नास्ति K.158; cf. also अगतिका हि एषा गतिः यत् कृत्स्नसंयोगे सति विकल्पसमुच्चयौ स्याताम् ŚB. on MS.1.5.47.

Recourse, shelter, refuge, asylum, resort; विद्यमानां गतिर्येषाम् Pt.1.32,322; आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk.

Source, origin, acquisition; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43; Ms.1.5.

a way, path.

A march, procession.

An event, issue, result.

The course of events, fate, fortune.

Course of asterisms.

The diurnal motion of a planet in its orbit.

A running wound or sore, fistula.

Knowing; अपेन पूर्वं न मयेति का गतिः Ki.14.15; knowledge, wisdom.

Transmigration, metempsychosis; Ms.6.73;12.3,23,4-45; त्यज बुद्धिमिमां गतिप्रवृत्ताम् Bu. Ch.5.36; Bhāg.1.17.1.

A stage or period of life, (as शैशव, यौवन, वार्धक).

(In gram.) A term for preposition and some other adverbial prefixes (such as अलम्, तिरस् &c.) when immediately connected with the tenses of a verb or verbal derivatives.

Position of a child at birth.-Comp. -अनुसरः following the course of another.-ऊन a. impassable, desert. -भङ्गः stoppage. -हीन a. without refuge, helpless, forlorn.

"https://sa.wiktionary.org/w/index.php?title=गतिः&oldid=323302" इत्यस्माद् प्रतिप्राप्तम्