सामग्री पर जाएँ

गर्भच्युति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गर्भच्युति¦ स्त्री

६ त॰। गर्भस्रावे तत्कारणादि सुश्रुते उक्तं यथा
“ग्राम्यधर्म्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीड-नधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्ष-कटुतिक्तभोजनशाकातिक्षारसेवनातिसारवमनविरेचसप्रे-ङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्ब्बन्धनान्मुच्यते ग-र्भः फममिव वृन्तबन्धनादभिघातविशेषैः। स विमुक्त-बन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरबस्रंसमानः कोष्ठसङ्क्षोभमापादयात तस्या जठरसङ्क्षोभाद्वायुर-पानोमूढः पार्श्ववस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गाना-मन्यतममापाद्य गर्भं व्यापादयति तरुणं शोणितस्रा-वेण, तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तम-निरस्यमानमपानवैगुण्यसंमोहितं गर्भं मूढगर्भमित्या-चक्षते। ततः स कीलः प्रतिखुरो वीजकः परिघइति। तत्र ऊर्द्ध्ववाहुशिरःपादो यो योनिमुखं निरु-णद्धि कील इव स कीलः। निःसृतहस्तपादशिराःकायसङ्गी प्रतिखुरः। यस्तु निर्गच्छत्येकशिरोभुजः सवीजकः। परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघइति चतुर्व्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक्कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधाप्रतिपद्यते तदा सङ्ख्या हीयते। तत्र कश्चित् द्वाभ्यांसक्थिभ्यां योनिमुख प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरे-केन, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्य्यगागतः। कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायाव-तिष्ठते। अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना। कश्चिदाभुग्नशिरा बाहुद्वयेन। कश्चिदाभुग्नमध्योहस्त-पादशिरोभिः। कश्चिदेकेन सक्थ्ना योनिमुखमभि-प्रतिपद्यतेऽपरेण पायुमित्यष्टबिधा मूढगर्भगति-रुद्दिष्टाः समासेन। तत्र द्वावन्त्यावसाध्यौ मूढगर्भौशेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंससंवरणमक्कल्ल-[Page2553-a+ 38] श्वासकासभ्रमनिपीडितान् परिहरेत्। भवन्ति चात्र। कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम्। प्रवर्त्ततेस्वभावेन नान्यथा पतितुं फलम्। एवं कालप्रकर्षेणमुक्तो नाडीनिबन्धनात्। गर्भाशयस्थो यो गर्भो जन-नाय प्रपद्यते। कृमिवाताभिघातैस्त तदेवोपद्रुतं फलम। पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः। आ चतु-र्थात्ततो मासात्प्रस्रवेद्गर्भविच्युतिः। ततः स्थिर-शरीरस्य पातः पञ्चमषष्ठयोः। प्रविध्यति शिरो या तुशीताङ्गी निरपत्रपा। नीलोद्धतसिरा हन्ति सा गर्भंसच तां तथा। गर्भास्पन्दनमावीनां (गर्भवतीनाम्) प्रणाशःश्यावपाण्डुता। भबत्युच्छ्वासपूतित्वं शूलं चान्तर्मृतेशिशौ। मानसागन्तुभिर्म्मातुरुपतापैः प्रपीडितः। गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः। वस्त-मारविपन्नायाः कुक्षिः प्रस्पन्दते यदि। तत्क्षणाज्जन्म-काले तं पाटयित्वोद्धरेद्भिषक्। ” गर्भविच्युति गर्भपतनादयोऽप्यत्र।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गर्भच्युति¦ f. (-तिः)
1. Birth, delivery.
2. Miscarriage. E. गर्भ, and च्युति falling.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गर्भच्युति/ गर्भ--च्युति f. falling from the womb , delivery Hit.

गर्भच्युति/ गर्भ--च्युति f. miscarriage W.

"https://sa.wiktionary.org/w/index.php?title=गर्भच्युति&oldid=499081" इत्यस्माद् प्रतिप्राप्तम्