गर्भपोषण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गर्भपोषण¦ न॰
६ त॰। गर्भस्य पुष्टिसम्पादके विधौ स च सुश्रुते द-र्शितः यथा
“गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टाशुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताव्राह्मणगुरु-परा च भवेन्मलिनविकृतहीनगात्राणि न स्पृशेद्दुर्गन्ध-दुर्दर्शनानि परिहरेदुद्वेजनीयाश्च कथाः, शुष्कं पर्य्युषितकुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमण शून्या-गारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भारा-नुच्चैर्भाष्यादिकं परिहरेद्यानि च गभं व्यापादयन्ति[Page2554-a+ 38] चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत नचायास-येच्छरीरं पूर्वोक्तानि च परिहरेत्। शयनासनं मृद्वा-स्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं विदध्यात्। हृद्यंद्रवं मधुप्रायं स्निग्धं दोपनीयसंस्कृतञ्च भोजनं भोजयेत्सामान्यमेतादा प्रसवात्। विशेषतस्तु गर्भिणी प्रथम-द्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत। विशेषतस्तु तृतीवे षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्नापञ्चमे पयसा षष्ठे सर्पिषा चेत्येके। चतुर्थे पयोनवनी-तसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोज-येत्। पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्यसर्पिषोमात्रां पाययेद्यवागूंवा। सप्तमे सर्पिः पृश्निपर्ण्या-दिसिद्धम् एवमाप्याय्यते गर्भः। अष्टमे वदरोदकेन वला-तिबलाशतपुष्पपललपयोदधिमस्तुतैललवणमदनफलमधु-घृतमिश्रेणाप्याययेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्चवायोः। ततः पयोमधुरकषायसिद्धेन तैलेनानुबासयेद-नुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति। अत ऊर्द्ध्वंस्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसव-कालादेवमुपक्रान्ता स्निग्धा बलयती सुखमनुपद्रवा प्रसू-यते” विधानपारि॰ तत्पोषणविधिर्मन्त्रभेदपूर्वको द-र्शितो विस्तरभयान्नोक्तस्तत्रैवावसेयः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गर्भपोषण¦ n. (-णं) Gestation. E. गर्भ, and पोषण nourishing.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गर्भपोषण/ गर्भ--पोषण n. " nourishing a foetus " , gestation W.
