सामग्री पर जाएँ

गर्भप्रसव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गर्भप्रसव¦ पु॰

६ त॰। गर्भस्य तत्स्थशिशोः प्रथमप्रका-शनरूपे दर्शनयोग्यतापादनरूपकर्मभेदे तत्र कालश्च
“नवमे दशमे मासि प्रबलैः सूतिमारुतैः। निःसार्य्यतेवाण इव जन्तुश्छिद्रेण सज्वरः” याज्ञ॰ उक्तः। तद्वि-धानं सुश्रुते दर्शितं यथा। (
“नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्त-तिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेत-रक्तपीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्तुकभल्ला-तकनिर्म्मितं सर्वागारं यथासङ्ख्यं तन्मयपर्य्यङ्कमुपलिप्त-भित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं बाष्ट-हस्तायतञ्चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम्। जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने। सशूलेजघने नारी ज्ञेया सा तु प्रजायिनी। तत्रोपस्थित-प्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णंपुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखात् श्लेष्मा च। प्रजनयिष्यमाणां कृतमङ्गलामुष्णोदकपरिषिक्तामथैनां कु-म्नारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषि-क्तामथैनां दम्भ तां यवापजा कण्ठात् पाययेत्। ततः[Page2554-b+ 38] कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसकथीमुत्ताना-मशङ्कनीयाश्चतस्रः स्त्रियः परिणवयसः प्रजननकुशलाःकर्त्तितनखाः परिचरेयुरिति अथास्या विशिखान्तर-मनुलोममनुमुखमभ्यज्याद्ब्रूयाच्चैनामेका सुभगे!” प्रवाहयस्वेति न चाप्राप्तावीं (अप्राप्तप्रसववेदनाम्) प्रवा-हयस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणि-वङ्क्षणवस्तिशिरःसु प्रवाहयेथाः शनैः शनैः। ततोगर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्नेगाढतरमा विशल्यभावात्। अकालप्रवाहणाद्बधिं मूकंव्यस्तहनुंमूर्द्धाभिघातिनं कासश्वासशोथोपट्टुतं वुब्जंविकटं वा जनयति। तत्र प्रतिलोममनुलोमयेत्। गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्षनिर्मोकेण पिण्डी-तकेन वा। बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयो-र्द्धारयेत् सुवर्च्चलां विशल्यां का। अथ जातस्योल्वंमुखञ्च सैन्धवसर्पिषा विशोध्य धृताक्तं मूर्द्ध्नि पिचुदद्यात्ततो नाभिनाडीमष्टाङ्गुलायामसूत्रेण बद्ध्वा छेदयेत्तत्सुत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग्बध्नीयात्अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्म्मणि कृतेमधुसर्पिरनन्ताब्राह्मीरसेन सुवर्ण्णचूर्णमङ्गुल्यानाभिकयालेहयेत्ततोवलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वगन्धो-दकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपि-त्थपत्रकषायेण वा कोष्णेन यथाकायं यथादोषं यथा-विभवञ्च। धमनीनां हृदिस्थानां विवृतत्वादनन्तरम्। चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते। तस्मात्प्र-थमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्रपूतं त्रिकालं पाययेद्-द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च। ततः प्राङ्निवारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं कालयेत्”।

"https://sa.wiktionary.org/w/index.php?title=गर्भप्रसव&oldid=327076" इत्यस्माद् प्रतिप्राप्तम्