गवेङ्गित
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गवेङ्गित¦ न॰ गवामिङ्गितम् अवङ्। शुमाशुभसूचके गवांचेष्टाभेदे तच्च वृ॰ स॰
९२ अ॰ उक्तं यथा।
“गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्चरोगान्। मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्त-स्करानारुवन्त्यः। अकारणे क्रोशति चेदनर्थं भयायरात्रौ वृषभः शिवाय। भृशं निरुद्धो यदि मक्षिकाभि-स्तदाशु वृष्टिं सरमात्मजैर्वा। आगच्छन्त्यो गोष्ठवृद्ध्यै चवेश्म बम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः। आर्द्रा-ङ्ग्यो वा हृष्टरोमण्यः प्रहृष्टा धन्या गावः स्युर्महिष्यो-ऽपि चैवम्”।
