गान्धारीतनय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गान्धारीतनय¦ पु॰
६ त॰।
१ दुर्य्यधनादौ तद्भभिन्यां
२ दुःश-लायां स्त्री। तस्यां तदुत्पत्तिकथा
“क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्। तोषया-मास गान्धारी व्यासस्तस्यै वरं ददौ। सा वब्रे सदृशंभर्त्तुः पुत्राणां शतमात्मनः। ततः कालेन सा गर्भंधृतराष्ट्रादथाग्रहीत्। संवत्सरद्वयं तन्तु गान्धारीगर्भमाहितम्। अप्रजा धारतामास ततस्तां दुःखभा-विशत्। श्रुत्वा कुन्तीसुतं जात बालार्कसमतेजसम्। उदरस्यात्मनः स्थैर्य्यमुपलभ्यान्वचिन्तयत् अज्ञातंधृतराष्ट्रस्य यत्नेन महता ततः। सोदरं घातयामासगान्धारी दुःखमूर्च्छिता। तती जज्ञे मांसपेशी लोहा-ष्ठीलेव संहता। द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुंप्रचक्रमे। अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्। तां स मांसमयीं पेशीं ददर्श जपतां वरः। ततोऽब्र-वीत् सौवलेर्यां किमिदं ते चिकीर्षितम्। सा चात्मनेमतं सत्यं शशंस परमर्षये। गान्धार्य्युवाच। ज्येष्ठंकुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्। दुःखेन परमे-णेदमुदरं घातितं मया। शतञ्च किल पुत्राणां वितीर्णंमे त्वया पुरा। इयञ्च मे मांसपेशी जाता पुत्रशतायवै। व्यास उवाच। एवमेतत् सौवलेयि! नैतज्जात्वन्यथाभवेत्। वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यदा। घृतपूर्णं कुम्भशतं क्षिप्रमेव विधीयताम्। स्वनुगुप्तेषु[Page2578-a+ 38] देशेषु रक्षा चैव विधीयताम्। शीताभिरद्भिरष्ठीलामि-माञ्च परिषेचय। वैशम्पायन उवाच। सा सिच्य-माना त्वष्ठीला बभूव बहुधा तदा। अङ्गुष्ठपर्व्व मात्राणांगर्भाणां पृथगेव तु। एकाधिकशतं पूर्णं यथायोगंविशाम्पते!। मांसपेश्यास्तदा राजन्! क्रमशः काल-पर्य्ययात्। ततस्तांस्तेषु कुम्भेषु गर्भानवदधे तदा। स्वनुगुप्तेषु देशेषु रक्षां चैवादधात्ततः। शशंस चैव भग-वान् कालेनैतावता पुनः। उद्घाटनीयान्येतानिकुम्भानीति स सौवलीम्। इत्युक्त्वा भगवान् व्यासस्तथाप्रतिविधाय च। जगाम तपसे धीमान् हिमवन्तंशिलोच्चयम्। जज्ञे क्रमेण चैतेन तेषां दुर्य्योधनो-नृपः!। जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः”। भा॰ आ॰
११
५ अ॰। तेषां नामानि ज्यैष्ठानुज्यैष्ठानि च तत्रैव
११
७ अ॰पाठक्रमेणोक्तानि यथा(
“दुर्य्योधनो युयुत्सुश्च राजन्! दुःशासनस्तथा। दुःसहोदुःशलश्चैव जलसन्धः समः सहः। विन्दानुविन्दौदुर्द्धर्षःसुवाहुर्दुष्प्रधर्षणः। दुर्मर्षणो दुर्मुखश्च दुष्कर्णःकर्ण एव च। विविंशतिर्विकर्णश्च शलः सत्त्वः सुलो-चनः। चित्रोपचित्रौ चित्राक्षश्चारुचित्रःशरासनः। दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभःसुनाभश्च तया नन्दोपनन्दकौ। चित्रबाणश्चित्रवर्म्मासुवर्म्मा तुर्विमोचनः। अयोवाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः। भीमवेगो भीमबलो बलाकी बलवर्द्धनः। उग्रायुधो भीभकर्म्मा कनकायुर्दृढायुधः। दृढवर्म्मादृढक्षत्रः सोमकीर्त्तिरनूदरः। दृढसन्धो जरासन्धःसत्यसन्धः सदः सुवाक्। उग्रश्रवा उग्रसेनः मेनानीर्दुष्प-राजयः। अपराजितः कुण्डशायी विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुबर्च्चसौ। आदित्यकेतु-बह्वाशी नागदत्तोऽग्रयाय्यपि। कवची निषङ्गी कुण्डीच कुण्डधारो धनुर्द्धरः। उग्रभीमरथौ वीरौ वीर-बाहुरलांलुपः। अभयो रौद्रकर्मा च तथा दृढरथश्चयः। अनाधृव्यः कुण्डभेदी विरावी दीर्घलोचनः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान्। दीर्घबाहु-र्महाबाहुर्व्यूढोरुः कनकध्वजः। कुण्डाशी विरजाश्चैवदुःशला च शताधिका”।
