सामग्री पर जाएँ

गाम्भीर्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गाम्भीर्य्य¦ न॰ गम्भीरस्य भावः ष्यञ्।

१ अगाधत्वे तलस्पर्शना-योग्यत्वे

२ अविकारित्वे च।
“निरस्तगाम्भीर्य्य-मपास्तपुष्पकम्” माधः।
“गाम्भीर्य्य मविकारित्वम्अगाधत्वञ्च” मल्लि॰। सा॰ द॰ उक्ते

३ पौरुषसात्वि-कगुणभेदे यथा
“शोभा विलासोमाधुर्य्यं गाम्भीर्य्यंधैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषागुणाः” इति पुरुषगुणानष्टधा विभज्य
“भीशोकक्रोध-हर्षाद्यैर्गाम्भीर्य्यं निर्विकारता” इति लक्षितम्।
“विकाराः सहजा यस्य हर्षक्राधभयादिषु। भावेषुनोपलभ्यन्ते तत् गाम्भीर्य्यमिति स्मृतम्” शाकु॰। यथा
“आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षि-तस्तस्य स्वल्पोऽप्याकारविभ्रमः”।

४ अचापल्ये च
“गाम्भी-र्य्यमनोहरं वपुः” रघुः
“गान्धीर्य्येण अचापल्येन” मल्लि॰।

"https://sa.wiktionary.org/w/index.php?title=गाम्भीर्य्य&oldid=330103" इत्यस्माद् प्रतिप्राप्तम्