गुडकुष्माण्डक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुडकुष्माण्डक¦ न॰ चक्रदत्तोक्ते औषधभेदे यथा। (
“कुष्माण्डस्य पलशतं सुखिन्नं निष्फुलीकृतम्। प्रस्थं वृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत्। त्वक्पत्र-धन्याकव्योषजीरकैलाद्वयानलम्। ग्रन्थिकं चव्यमानङ्ग-पिप्पलीविश्वभेषजम्। शृङ्गाटकं कशेरुञ्च प्रलम्बंतालमन्तकम्। चूर्णीकृतं पलांशञ्च गुडस्य च तुलांपकेत्। शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत्। कफपित्तानिलहरं मन्दाग्नीनाञ्च शस्यते। कृशानांवृंहणं श्रेष्टं वाजीकरणमुत्तमम्। प्रमदासु प्रसक्तानये च स्युः क्षीणरेतसः। क्षयेण च गृहीतानां परमे-तद् भिषग् जितम्। कासं श्वासं ज्वरं हिक्कां हन्तिछर्दिमरोचम्। गुडकुष्माण्डकं ख्यातमश्विभ्यांसमुदाहृतम्। खण्डकुष्माण्डवत् पात्रं स्विन्न-कुष्माण्डकद्रवः। ”
