गुडभल्लातक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुडभल्लातक¦ पु॰ गुडेन पक्वः भल्लातकः। पाकविशेषेण गुड-पक्वे भल्लातकादिरूपे औषधभेदे चक्र॰ तत्पाको यथा
“भल्लातकसहस्रे द्वे जलद्रोर्णे विपाचयेत्। पादशेषे रसेतस्मिन् पचेद्गुडतुलां भिषक्। भल्लातकसहस्रार्द्धंछित्त्वा तत्रैव तापयेत्। सिद्धेऽस्मिंस्त्रिफलाव्योषय-मानीमुस्तसैन्धवम्। कर्षांशसम्मित दद्यात् त्वगेलाप-त्रकेशरम्। खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः!। कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डताः। हन्यात्प्लीहोदरं कासक्रिमिरोगभगन्दरान्। गुङभल्लातको-ह्येष श्रेष्ठश्चार्शोविकारिणाम्”। प्रकान्तरं यथा
“दश-मूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शटी। भल्लातकसहस्रञ्चपलाशं क्वाथवेद् बुधः। पादशेषे जलद्रोणे रसे तस्निन्[Page2599-a+ 38] विपाचयेत्। दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत्। माक्षिकं पिप्पलीतैलं मारुवकञ्च दापयेत्। कुडवं कुडव-ञ्चात्र त्वगेलामरिचन्तथा। अर्शःकासमुदावर्त्तं पाण्डुत्वंशोथमेव च। नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः”।
