गुणवाद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुणवाद¦ पु॰ गुणस्य अङ्गस्य वादः। अर्थवादभेदे तथाहि अर्थ-वादो विध्यसमभिव्याहृतवाक्यरूपः सोऽपि त्रिविधः
“गु-णवादी विरोधे स्यादनुवादीऽवधारिते। भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” इति भट्टका॰। अयमर्थः विरोधे विशे-ष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादःअङ्गकथनरूपत्वात् यथा यजनानः प्रस्तर इति अत्रहि प्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वयबाधात्यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः। अवधारिते प्रमाणान्तरसिद्धेऽर्थे यो वादः सोऽनुवादः यथा
“अन्तरीक्षे नाग्निश्चेतव्यः”
“अग्निर्हिमस्य भेषजम्” इत्यादिच, अन्तरीक्षे अग्निचयनस्यासम्भवेन तदभावस्य, अग्नेर्हि-मनाशकत्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः। तद्धा-नौ तयोर्विरोधावधारणयोरभावे भूतार्थवादः।
“इन्द्रो वृत्र-महन्नित्यादि” सोऽपि द्विविधः स्तुत्यर्थवादो निन्दार्थवादश्च।
“सन्ध्यामुपासते ये तु सततं संशितव्रताः। विधूतपापास्तेयान्ति ब्रह्मलोकबनामयमित्यादौ” स्तुत्यर्थवादः।
“तैल-स्त्रीमांसमम्भोगी पर्वस्वेतेषु वै पुमान्। विण्मूत्रभोजनंनाम प्रयाति नरकं ध्रुवम्” इत्यादौ निन्दार्थवाद इति।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुणवाद/ गुण--वाद m. a statement meant figuratively Jaim. i , 2 , 10
गुणवाद/ गुण--वाद m. a statement contradictory to other arguments Madhus.
