गुणवृत्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुणवृत्ति¦ स्त्री गुणेन वृत्तिः।
१ लक्ष्यमाणसादृश्यादिगुणा-वलम्बनेन शब्दस्य अर्थप्रकाशनरूपशक्तौ लक्षणावृत्तौ,
“यस्याक्षिसमीपे पौण्ड्राणि स गुणवृत्त्या चतुरक्षः” कात्या॰ श्रौ॰
२० ।
१ ।
३८ सूत्रे कर्कः। गुणे वृत्तिर्यस्य।
२ गुणसामर्थ्यवति त्रि॰
“ब्रह्मन् ब्रह्मण्यनिर्द्देश्ये निर्गुणेगुणवृत्तयः। कथं चरन्ति? श्रुतयः साक्षात् सदसतःपरे” भाग॰
१०
८७ अ॰। गुणानां सत्वादीनां वृत्तिः। सत्वादीनां
३ परिणामभेदेषु स्त्री
“परिणामतापसंस्कार-दुःखैर्गुणविवरोधाच्च दुःखमेव सर्वं विवेकिनः” पात॰ सू॰। तासाञ्च यथाऽन्योन्यविरोधस्तथा तत्सूत्रभाष्यादिषुदर्शितम्। (
“प्रख्याप्रवृत्तिस्थितिरूपा बुद्विगुणाः परस्परानुग्रह-तन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवा-रभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तंरूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामा-न्यानि तु अतिशयैः सह प्रवर्त्तन्ते एवमेते गुणाइतरेतराश्रयेणोपार्ज्जितसुस्वदुःखमोहप्रत्यया इतिसर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषु विशेषइति तस्मात् दुःखमेव सर्व्वं विवेकिन” व्यासभा॰। (
“प्रख्याप्रवृत्तिस्थितिरूपबुद्धिरूपेण परिणतागुणाः सत्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं-सुखात्मक, घोरं दुखात्मकं, मूढं विषादात्मकमेव प्रत्ययंसुखोपभोगरूपमपि त्रिगुणं प्रारभन्ते नच सोऽपिंतादृशरूपोऽस्य परिणामः स्थिरः इत्याह चलञ्चगुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं नान्वेकप्रत्ययःकथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यते?इत्यत आह रूपा{??}या वृत्त्यतिशयाश्च परस्परेणविरुध्यन्ते सरूपास्त्वष्टा भावा धर्म्मादयो वृत्तयः सुखा-द्यास्तदिह धर्म्मेण विपच्यमानेनाधर्म्मस्तादृशो विरुध्यतेएवं ज्ञानवैराग्यैश्वर्य्यैः सुखादिभिश्च तादृशान्येव[Page2609-a+ 38] तद्विपरीतानि विरुध्यन्ते, सामान्यानि त्वसमुदाचरद्रूपाणि अतिशयैः समुदाचरद्निः सहाविरोधात् प्रवर्त्तन्तेइति। ननु गृह्णीमएतत्तथापि विषयसुखस्य कुतः स्वाभा-विकी दुःखतेत्यत आह एवमेव इति उपादानाभेदा-दुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः। तत्किमिदा-नीमात्यन्तिकमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदीन कल्पते इत्यत आह गुणप्रधानेति सामान्यात्मनागुणभावोऽतिशयात्मना च प्राधान्यं तस्मादुपाधितःस्वभावतश्व दुःखभेव सर्व्वं विवेकिन इति” वाच॰ विवरणम्
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुणवृत्ति/ गुण--वृत्ति f. a secondary or unessential condition or relation (opposed to मुख्या वृ) Ka1tyS3r.
गुणवृत्ति/ गुण--वृत्ति f. the secondary force of a word W.
गुणवृत्ति/ गुण--वृत्ति f. character or style of qualities or merits W.
