गुरुराहु
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरुराहु¦ पु॰ गुरुणा सह राहुर्यत्र। कालाशुद्धिहेतौराहुजीवयोर्योगे
“व्रतदीक्षे न कुर्वीत तमोयुक्ते वृह-स्पतौ” व्रतदीक्षे इति नित्येतरकर्म्मोपपलक्षणपरम्
“एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती। विवाह-व्रतयज्ञादि सर्वं तत्र विवर्ज्जयेत्” स्मृतिसारे ज्यो॰ वच-नात्।
“ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः। गुरुराह्वोरपि तदा त्यजेद्विद्वान्न संशयः” भविष्यपु॰। अत्र गुरोर्लज्जितत्वं हेतुः।
“यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते। उपहासाय किन्न स्यादसत्सङ्गोमनीषिणाम्”। गुरुचण्डालादयोऽप्यत्र।
