गुरुवर्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरुवर्ष¦ न॰ पु॰
६ त॰ ज्योतिषोक्ते गुरुओर्मध्यगत्या राशिभोग-कालात्मके वर्षभेदे वृह॰ सं॰
८ अ॰ वृहस्पतिचाराध्यायेतद्वर्षमध्ये गुरोरस्तोदयात् तत्संज्ञाभेद उक्तो यथा
“नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री। तत्सञ्ज्ञंवक्तव्यं वर्षं मासक्रमेणेव। वर्षाणि कार्त्तिकादीन्याग्नेया-द्भद्वयानुयोगीनि। क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं चतद्वर्षम्”।
“सहोदयमस्तं वा येन यातीति” पाठं प्रकल्प्य(
“नक्षत्रेण गुरुभुज्यमाननक्षत्रेण आग्नेयं कृत्तिका। पञ्चमं फाल्गुनम् अन्त्यमाश्विनं उपान्त्यं भाद्रपदम्।
“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः। शेषामासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया, इतिवचनात्।
“द्वे द्वे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते। मासाश्चैत्रादयोज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः इति सङ्क-र्षणवाक्यात् पर्वेन्दुसङ्गते पौर्णमासीसंयुते। तदेकवाक्य-तया पूर्ववचने पौर्णभासीलाभः। तथा च यथा मासानांपौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्वं तथा-वर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिकादित्वंतेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैक-तरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि। यत्र वर्षद्वय-घटकयोर्नक्षत्रयोरेकतरस्मिन्नस्तं गतो गुरुरन्यस्मिन्नुदेतितत्र का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं तदुत्तरंपौषमित्यादिक्रमाद् गतिः” मल॰ त॰ व्याख्यातम्।
“नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः। कार्त्ति-क्यादिषु संयोगे कृत्तिकादिद्वयं द्वयम्। अन्त्योपान्त्यौ प-ञ्चमश्च त्रिधा मासत्रयं स्मृतम्। वैशाखादिषु कृष्णे चयोगः पञ्चदशे तिथौ। कार्त्तिकादीनि वर्षाणि गुरोर-स्तोदयात् तथा” सू॰ सि॰ तस्य रङ्ग॰ व्याख्या अ-व्दशब्दे
२७
१ पृ॰ दर्शितापि स्मरणार्थं दिग्मात्रमत्रो-च्यते
“वृहस्पतेः सूर्य्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वावैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथोअमायामित्यर्थः चकारः पौर्णमासीसम्बन्धसमुच्चयार्थकः। योगो दिननक्षत्रसम्बन्धः। कार्त्तिकादीनि द्वादश वर्षाणि। वैशाखकृष्णपक्षामायां मुरोरस्ते तस्य (पौर्ण्णमास्यां वा)[Page2620-a+ 38] उदये जाते सति तदादि गुरुवर्षं कृत्तिकादिनक्षत्र-सम्बन्धात् कार्त्तिकसंज्ञं भवति। अमेत्यत्युपलक्षणम् तेनयद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्-संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्” संक्षेपः। अत्र चन्द्राक्रान्तनक्षत्रवशेन गुरुवर्षसंज्ञायाः कार्त्तिकादिशब्दस्य योगरूढत्वमाश्रित्य रङ्गनाथेनोक्तिः। तथाहि
“नक्षत्रेण युक्तः कालः” पा॰ सूत्रे नक्षत्रपदस्य चन्द्रा-धिष्ठिततत्समीस्थनक्षत्रपरत्वमन्यथाराशिचक्रान्तर्गततत्त-न्नक्षत्राणां कालभेदेनोदयात्तद्योगस्य प्रतिदिनं सत्त्वेननक्षत्रयोगमात्रस्याव्यावर्त्तकत्वम्। तस्य च
“लुबविशेषे” पा॰ लुप् लुप्ताऽणा प्रत्ययेन च चन्द्राधिष्ठितकृत्तिकादिनक्ष-त्रयुक्तस्य तत्समीपस्थरोहिण्यादियुक्तस्य च कालस्यबोधनम् न तु गुरुभुज्यमाननक्षत्रयुक्तकालस्य बोधनम्। स च कालः यत्रास्ति अर्श॰ अचि कार्त्तिकादेर्वर्षस्य बोधः। रघु मते तु कार्त्तिकशब्दे
१९
४९ पृ॰ दर्शितजयादित्यव्या-ख्यानुसारेण
“सास्मिन् पौर्णमासीति संज्ञायामिति” पा॰ सूत्रे अस्मिन्निति पदस्यार्द्धमासमासवर्षपरत्वेऽपिवर्षपरत्वपक्षे अनेकपूर्णिमाणां वर्षघटकत्वेन तद्योगेनसज्ञाविशेषानाधायकत्वेन योगार्थाभावात् केवलरूढत्वंपारिभाषिकत्वं वाश्रित्य गुरुभुज्यमाननक्षत्रे गुरोर-स्तोदयवशात् तन्नामोक्तिरिति मतभेदः। उभयमते-ऽपि उदयशब्दस्य सूर्य्यसान्निध्यविशेषोत्तरमुदयपरतान तु प्रत्यहं कालभेदेन जायमानोदयगिरिसम्बन्धमात्र-परता तस्य सदातनत्वेनाविशेषात्। तत्राप्ययं विशेषःयद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रंतत्संज्ञं वार्हस्पत्यं वर्षमिति रङ्गनाथोक्तिः अमायाम-स्तोदययोरेव बोध्या। अमायां हि सूर्यचन्द्रयोरेकराशि-स्थत्वेन गुरोरपि तत्रस्थितत्वेनास्तत्वात्। पूर्णिमायान्तुनैतत्सम्भवः तदा चन्द्रस्य सूर्य्यात् सप्तमराशिस्थत्वेनगुरोश्चन्द्राधिष्ठितनक्षत्रस्थत्वेऽस्तत्वासम्भवात्। अत्रपूर्णिमायां गुरोरस्तोदययोश्चन्द्राधिष्ठितनक्षत्रं विनाऽपिसम्भवात् तत्र जीवभुज्यमाननक्षत्रनाम्नैव वर्षसंज्ञा तद-भिप्रायेणैव
“ज्येष्ठामूलोपगे जीवे” इति वक्ष्यमाणवचनंद्रष्टव्यम् नक्षत्रेण सहोदयमित्यस्य
“तक्षत्रेण गुरु-भुजामाननक्षत्रेणेति” रघु॰ व्याख्या च बोध्या। रङ्ग-नाथमते तु नक्षत्रेण चन्द्राक्रान्तनक्षत्रेण सह चन्द्रा-र्काभ्यां सममित्येव व्याख्या अमायाञ्च तयोरेकराशिस्थत्वात्धथोक्तिः अस्मिन् पक्षे च सह शब्दस्य सार्थक्यं रघु॰[Page2620-b+ 38] मते तु सहशब्दवैयर्थ्यां बोध्यम्। वस्तुतः चान्द्रमाससं-ज्ञाभेदे चन्द्राक्रान्तनक्षत्रस्य प्रयोजकत्ववत् गुरुवर्षसंज्ञाभेदेगुरुभुज्यमाननक्षत्रस्यैव प्रयोजकत्वं युक्तमन्यवर्षसंज्ञा-भेदेऽन्याक्रान्तनक्षत्रस्य प्रयोजकत्वानौचित्यात्। अत्रेदंबोध्यम्
“द्वासप्ततिर्महत्यस्ते इत्युक्तेः”
७२ द्वासप्ततिसा-वनदिनैर्वार्द्धक्यास्तत्ववाल्यसम्भवेन वार्द्धक्यवाल्यकाल-परित्यागेन अस्तकालस्य त्रिपक्षात्मकत्वेनामायामस्तत्वेपूर्णिमायामुदयः पूर्णिमायामस्तत्वेऽमायामुदयः। अमायाअपि द्वादशभागात्मकम्बेन सूर्य्याक्रान्तांशात्
“एकाद-शामरेज्यस्य” सू॰ सि॰ उक्तैकादशांशातिक्रमे गुरोरुद-यसम्भवः। रङ्गनाथेन
“सोहताग्रन्थेऽस्तोदयसम्बन्धात्वर्षोक्तिः परन्त्विदानीमुदयादवर्षव्यवहारो गणकैर्गण्यतेइत्युक्तत्वात् गुरोरुदयवशादेव तद्वर्षगणना कार्य्या। अतएव
“अस्तोदयात्तथा” सू॰ सि॰ वाक्यस्य अस्तोत्तरंसूर्य्यसान्निध्यविशेषाधीनास्तकालादुत्तरम् उदय इतिव्याख्या अतएवैकवचनप्रयोगः अतएव च वृ॰ स॰
“नक्ष-त्रेण सहोदयमुपगच्छति येनेति” उदयमात्रस्य वर्षनाम-प्रयोजकतोक्तिः। तत्र
“नक्षत्रेण सहोदयमस्तं वा येनयातीति रघुनन्दनधृतपाठश्छन्दाभङ्गदोषादनादेयः। अत्रेदं बोध्यं ग्रहगतन्यूनाधिकसम्भावनया ततो-ऽर्वाक् पश्चाद्वा उदयः सम्भाव्यते इत्यतोऽमेत्युपलक्षण-मित्युक्तम्। चन्द्राधिष्ठितनक्षत्रद्योतनायैव सू॰ सि॰
“वैशा-खादिषुकृष्णे च योगे पञ्चदशे तिथावित्युक्तं
“सा वैशा-खस्यामावास्या था रोहिण्या संबध्यते” इत्युक्तेः प्रायेणतस्या रोहिणीसम्बन्धः सम्भाव्यते रोहिणीसम्बन्धे चवर्षस्य कार्त्तिकत्वं रोहिण्याश्चन्द्राधिष्ठितकृत्तिकासमी-पस्थत्वात् अतएव नक्षत्रद्वयसम्बन्धेन कात्तिकत्वादित्व-कथनम्। तथा चायमर्थः।
३ ।
४ । नक्षत्रयोः कार्त्ति-कम्।
५ ।
६ । मार्गशीर्षम्।
७ ।
८ । पौषम्।
९ ।
१० । माघम्।
११ ।
१२ ।
१३ । फाल्गुनम्।
१४ ।
१५ । चैत्रम्।
१६ ।
१७ । वैशाखम्।
१८ ।
१९ । ज्यैष्ठम्।
२० ।
२१ । आषाढम्
२२ ।
२३ । श्रावणम्।
२४ ।
२५ ।
२६ । भाद्रम्।
२७ ।
१ ।
२ । नक्षत्रेषु आश्विनं वर्षम्। एवं द्वादश वर्षाणि भवन्ति। तेनचन्द्राधिष्ठितशब्दस्य तदाक्रान्ततत्समीपर्क्षपरत्वम्
“नक्ष-त्रेण युक्तः कालः” पा॰ नक्षत्रशब्दस्य तादृशार्थकत्वेन तत्-प्रत्ययार्थरूपयोगेन तदर्थत्वौचित्यात् अतः कार्त्तिक-वर्षस्य रोहिणीनक्षत्रसम्बन्धेऽपि सम्भवः। अतएव
“ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमः” इति
“ज्येष्ठा[Page2621-a+ 38] मूलोपगे जीवे वर्षं स्यात् शक्रदैवतम्” इत्युक्तिर्द्रष्टव्या। एवं कार्त्तिकादिगुरुवर्षनिमित्तेऽवधारिते इतलिदानींचिन्त्यते यथा चान्द्रमासस्य तत्तन्नक्षत्रयुक्तपौर्णमासी-युक्तत्वेऽपि तद्घटितत्वेन शुक्लप्रतिपदादिदर्शान्तस्य
“साऽस्मिन् पौर्णमासीति संज्ञायाम्” पा॰ इत्यण्प्रत्यया-न्तार्थतया ग्राह्यता तथा
“वैशाखादिष्वित्यादिनागुरोरस्तोदयसम्बन्धात् गुरुवर्षत्वेऽपि तस्य कतम आद्य-न्तकाल इति सन्देहे अविशेषात् चान्द्रवर्षस्य सौरवर्षस्यवा आद्यन्तकाल एव तस्याद्यन्तकाल इति केचित्। तन्न नक्षत्रसम्बन्धेन चान्द्रमासस्य ग्रहणे
“साऽस्मिन्पौर्णमासीति” पा॰ विहिताणा तत्तन्नक्षत्रयुक्तपौर्णमासी-घटितकालस्य बोधनात् तदादित्वौचित्यात्। गुरुवर्षग्रहणेतु तथाभूतपौर्णमासीमात्रस्याप्रयोजकत्वात् न चान्द्रादि-वर्षादित्वकल्पनं किन्तु गुरोर्मध्यगत्या राशिभोगारम्भा-न्तकाल एव कार्त्तिकादिगुरुवर्षाद्यन्तकालः वक्ष्यमाणबच-नजातेभ्यः। रङ्ग॰ ना॰ मते तदादीत्युक्तेः सावनादिवत् गुरो-रस्तोदयादिकालाद्यन्तकाल एव आश्विनादेर्गुरुवर्षतयातदाद्यन्तकालो युक्त इतरस्यासन्निहितत्वात् इति भेदः। तच्च वर्षं तदीयोदयादियुक्ततदीयमध्यमराशिभोगावच्छि-न्नकालः, अव्दशब्दे
२७
१ पृष्ठे दर्शितायाः
“वृहस्पतेरस्त उ-दये वा जाते सति तदादि वृहस्पतिवर्षमिति” सूर्य्यसिद्धा-न्तटीकायां रङ्गनाथेन तदादीत्युक्तेः तदादिर्वेति भेदः। तन्मते मध्यमराशिपदं च राशिचक्रान्तर्गतत्रिशांशपरंतेन यतमांशे उदयः पुनः राश्यन्तरे ततमेऽंशे उदय-कालपर्य्यन्तः राशिशब्दार्थः। अन्यमते तु राशिपदंमेषादिराशिपरं तेन तदीयराशिभोगारम्भकालावधितदवसानपर्य्यन्त एवाश्विनादिवर्षाणामाद्यन्तकालः। इदमेव ज्यायः
“वृहस्पतेर्मध्यमराशिभोगात् संवत्सरंसांहितिका वदन्ति” सि॰ शि॰ उक्तेः
“कल्पा-दितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः। संवत्सरास्ते विजयाश्विनाद्या इतीज्यमाने किल संहितो-क्तमिति” तत्रत्यपाटान्तरात्
“कल्पाव्दभक्ता गुरुराशयोये संवत्सराः स्युर्विजयादयस्ते। बभाषिरे सांहितिकाहि पूर्वे वर्षाणि तस्याश्विनपूर्वकाणि” श्रीपतिसमुच्चयोक्तेश्च। तेन मध्यमराशिभोगकालस्य गुरोरस्तोदयादाश्विनादिवर्ष-संज्ञा। तथा च गुरोरेकैकमध्यमराशिभोगकालावच्छिन्नंगुरवर्षमिति स्थिते यस्मिन् वर्षे गुरोरुदयास्तकाले अश्वि-न्यादियोगस्तस्य वर्षस्याश्विनादिसंज्ञा एवं गुरुवर्षस्यैव[Page2621-b+ 38] चान्द्रवर्षसौरवर्षयोरप्रवेशद्विप्रवेशाभ्यां तदीयाधिमासलुप्त-वर्षोत्कीर्त्तनञ्च सङ्गच्छते यथाह मुहूर्त्तकल्पद्रुमे
“चेत्स्पष्टया वाप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे। गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषुवर्ज्यः”। यशोधरतन्त्रे
“एकस्मिन् रविवर्षे गौरववर्षद्वया-वसानं चेत्। त्र्यव्दस्पृगेनमेवं विलुप्तसंवसरं प्राहुः”। ज्योतिर्विदाभरणे
“गुरुसंक्रमयुग्मवत्समा गदिता सा ननुलुप्तसंज्ञिता। न बुधैर्गदिता शुभेहिताऽधिसमा गीष्यतिसंक्रमोज्झिता”। अतः सौरचान्द्रवर्षातिरिक्त एव आश्वि-नादिगुरुवर्षः गुरोः उदयकालावधिः पुनरुदयकालपर्यन्तः,तदीयेकैकभध्यमराशिभोगकालावच्छिन्नो वा स्वीकार्यःइति तदादित्वमेव तस्येत्येवमवसीयते। एवञ्च महा-ज्यैष्ठ्यादियोगेऽपि तदाद्यन्त एव ज्यैष्ठोग्राह्यः। ( कार्त्तिकादिगुरुवर्षफलं तद्वर्षेणैव विष्ण्वादिद्वादशवर्षरू-पयुगानि प्रत्येकतदन्तर्गतसंवत्सरादिवर्षपञ्चकस्य विशेषसंज्ञा इत्येवं षष्टिवर्षास्तत्फलञ्च वृ॰ सं॰ उक्तं यथा
“शकटानलोपजीवकगोपीडाव्याधिशस्त्रकोपश्च। वृद्धिस्तुरक्तपीतककुसुमानां कार्त्तिके
१ वर्षे। सौम्ये
२ (मार्गे)ऽव्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यबधः। व्या-धिभयं मित्रैरपि भूपानां जायते वैरम्। शुभ-कृज्जगतः पौषो
३ निवृत्तवैराः परस्परं क्षितिपाः। द्वित्रिगुणो धान्यार्धः पौष्टिककर्मप्रसिद्धिश्च। पितृपूजा-परिवृद्ध्विर्माघे
४ महर्द्धिः सर्वभूतानाम्। आरोग्यवृष्टि-धान्यार्धसम्पदो मित्रलाभश्च। फाल्गुनवर्षे
५ विद्यात्क्वचित् क्वचित् क्षेमवृद्धिसस्यानि। दौर्भाग्यं प्रमदानांप्रबलाश्चौरा नृपाश्चोग्राः। चैत्रे
६ मन्दा वृष्टिः प्रिय-मन्नं क्षेममवनिपा मृदवः। वृद्धिस्तु कोशधान्यस्य भवतिपीडा च रूपवताम्। वैशाखे
७ धर्मपरा विगतभयाःप्रमुदिताः प्रजाः सनृपाः। यज्ञक्रियाप्रवृत्तिर्निष्पत्तिःसर्वसस्यानाम्। ज्यैष्ठे
८ जातिकुलधनश्रेणीश्रंष्ठा नृपाःसधर्मज्ञाः। पीड्यन्ते धान्यानि च हित्वा कङ्गु शमी-जातिम्। आषाढे
९ जायन्ते सस्यानि क्वचिदवृष्टि-रन्यत्र। योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः। श्रावणवर्षे
१० क्षेमं सम्यक् सस्यानि पाकमुपयान्ति। क्षुद्रायोपाषण्डाः पीड्यन्ते ये च तद्भक्ताः। भाद्रपदे
११ वल्लीजंनिष्पत्तिं याति पूर्वसस्यं च। न भवत्यपरं सस्यक्वचित् सुभिक्षं कचिच्च भयम्। आश्वयुजे
१२ ऽव्देऽजस्रंपतति जलं प्रसुदिताः प्रजाः क्षेमम्। प्राणचयः[Page2622-a+ 38] प्राणभृतां सर्वेषामन्नबाहुल्यम्। उदगारोग्यसुभिक्ष-क्षेमकरो वाक्पतिश्चरन् भानाम्। याम्ये तद्विपरीतोमध्येन तु मध्यफलदायी। विचरन् भद्वयमिष्टस्तत्सार्धंवत्सरेण मध्यफलः। सस्यानां विध्वंसी विचरेदधिकंयदि कदाचित्। अनलभयमनलवर्णे व्याधिः पीतेरणागमः श्यामे। हरिते च तस्करेभ्यः पीडा रक्तेतु शस्त्रमयम्। धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपबधोदिवा दृष्टे। विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाःस्वस्थाः। रोहिण्योऽनलभं
३ च वत्सरतनुर्नाभिस्त्वषाढा-द्वयं सार्पं
९ हृत् पितृदैवतं
१० च कुसुमं शुद्धैः शुभं तैःफलम्। देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयंक्षुत्कृतम्, पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशोध्रुवम्। गतानि वर्षाणि शकेन्द्रकालाद्धतानि रुद्रै
११ र्गु-णयेच्चतुर्भिः। नवाष्टपञ्चाष्टयुतानि कृत्वा विभाजयेच्छून्य-शरागरामैः
३७
५० । फलेन युक्तं शकभूपकालं संशोध्यषष्ट्या विषयै
५ र्विभज्य। युगानि नारायणपूर्वकाणि ल-ब्धानि शेषाः क्रमशः समाः स्युः। एकैकमब्देषु नवा-हतेषु दत्त्वा पृथग्द्वादशकं क्रमेण। हृत्वा चतुर्भि-र्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम्। विष्णुः
१ सुरेज्यो
२ वलभिद्
३ हुताश
४ स्त्वष्टो
५ त्तरप्रोष्ठपदाधि-पश्च
६ । क्रमाद्युगेशाः पितृ
७ विश्व
८ सोमाः
९ शक्रऽनलाख्या
१० ऽश्वि
११ भगाः
१२ प्रदिष्टाः। संवत्सरो-ऽग्निः परि॰ त्सरोऽर्क इदादिकः शीतमयूखमाली। प्रजापतिश्चाप्यनुवत्सरः स्या दुद्वत्सरः शैलसुतापतिश्च। वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये। पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममव्दमुक्तम्। चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैव-तानि। चत्वारि मध्यानि च मध्यमानि चत्वारि चा-न्त्यान्यधमानि विद्यात्। आद्यं धनिष्ठांशमभिप्रपन्नोमाघेयदा यात्युदयं सुरेज्यः। षष्ट्यव्दपूर्वः प्रभवः सनाम्ना प्रवर्त्तते भूतहितस्तदाव्दः। क्वचित्त्ववृष्टिः पव-नाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः। संवत्स-रेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि। तस्माद्द्वितीयो विभवः
२ प्रदिष्टः शुक्ल
३ स्तृतीयः परतःप्रमोदः
४ । प्रजापतिश्चेति
५ यथोत्तराणि शस्तानि वर्षाणिफलानि चैषाम्। निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्ता-मुपशान्तवैराम्। संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदाशास्ति च भूतधात्रीम्। आद्योऽङ्गिराः
१ श्रीमुख
२ मान-[Page2622-b+ 38] साह्वौ
३ युवाथ
४ धातेति
५ युगे द्वितीये। वर्षाणि पञ्चैवयथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे। त्रिष्वङ्गि-राद्येषु निकामवर्षी देवो निरातङ्कभयाश्च लोकाः। अ-व्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समराग-मश्च। शाक्रे युगे पूर्वमथेश्वराख्यं
१ वर्षं द्वितीयं बहुधा-न्य
२ माहुः। प्रमाथिनं
३ विक्रम
४ मप्यतोऽन्यद्वृषं
५ चविद्याद्गुरुचारयोगात्। आद्यं द्वितीयं च शुभे तु वर्षेकृतानुकारं कुरुतः प्रजानाम्। पापः प्रमाथी वृषवि-क्रमौ तु सुभिक्षदौ रोगभयप्रदौ च। श्रेष्ठं चतुर्थस्ययुगस्य पूर्वं यच्चित्रभानुं
१ कथयन्ति वर्षम्। मध्यं द्वितीयंतु सुभानु
२ संज्ञं रोगप्रदं मृत्युकरं न तच्च। तारणं
३ त-दनु भूरिवारिदं सस्यवृद्धिमुदितं च पार्थिवम्। पञ्चमंव्ययमुशन्ति शोभनं
५ मन्मथप्रबलमुत्सवाकुलम्
४ । त्वाष्ट्रेयुगे सर्वजि
१ दाद्य
२ उक्तः संवत्सरोऽन्यः खलु सर्वधारी
३ । तस्माद्विरोधी
३ विकृतः
४ खरश्च
५ शस्तो द्वितीयोऽत्र भयायशेषाः। नन्दनो
१ ऽथ विजयो
२ जय
३ स्तथा मन्मथो
४ ऽस्यपरतश्च दुर्मुखः
५ । कान्तमन्त्र युग आदितस्त्रयं मन्मथःसमफलोऽधमोऽपरः। हेमलम्ब
१ इति सप्तमे युगे स्या-द्विलम्बि
२ परतो विकारि
३ च। शर्वरीति
४ तदनु प्लवः
५ स्मृतो वत्सरो गुरुवशेन पञ्चमः। ईतिप्रायः प्रचुरपवनोवृष्टिरव्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतोद्वितीये। अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थोदुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः। वैश्वे युगेक्षोभकृ
१ दित्यथाद्यः संवत्सरोऽतः शुभकृद्
२ द्वितीयः। क्रोधी
३ तृतीयः परतः क्रमेण विश्वावसु
४ श्चेति पराभव
५ श्च। पूर्वा-परौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽव्दः। अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगो-भयं च। आद्यः प्लवङ्गो
१ नवमे युगे अव्दः स्यात्कीलको
२ ऽन्यः परतश्च सौम्यः
३ । साधारणो
४ रोधकृ
५ दित्यथाव्दःशुभप्रदौ कीलकसौम्यसंज्ञौ। कष्टः प्लवङ्गो बहुशः प्रजा-नां साधारणेऽल्पं जलमीतयश्च। यः पञ्चमो रोधकृदि-त्यथाव्दश्चित्रं जलं तत्र च सस्यसम्पत्। इन्द्राग्निदैवंदशमं युगं यत् तत्राद्यमव्दं परिधावि
१ संज्ञम्। प्रमाद्य
२ -थानन्द
३ मतः परं यत् स्याद्राक्षसं
४ चानल
५ संज्ञितं च। परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः। अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पवीजनाशः। तत्परः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा। ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः। [Page2623-a+ 38] एकादशे पिङ्गल
१ कालयुक्त
२ सिद्धार्थ
३ रौद्राः
४ खलु दुर्म-तिश्च
५ । आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्चकासः। यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवोगुणाश्च। रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मति-र्मध्यमवृष्टिकृत् सः। भाग्ये युगे दुन्द्वुभि
१ संज्ञमाद्यं सस्यस्यवृद्धिं महतीं करोति। उद्गारि
२ संज्ञं तदनु क्षयाय नरे-श्वराणां, विषमा च वृष्टिः। रक्ताक्ष
३ मव्दं कथितं तृती-यं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च। क्रोधं
४ बहुक्रोधकरंचतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः। क्षयमिति
५ यु-गस्यान्त्यस्यान्त्यं बहुक्षयकारकं जनयति भयं तद्विप्राणांकृषीबलवृद्धिदम्। उपचयकरं विट्शूद्राणां परस्वहृतांतथा कथितमखिलं षष्ट्यव्दे यत्तदत्र समासतः। अक-लुषांशुजटिलः पृथुमूर्त्तिः कुमुदकुन्दकुसुमस्फटिकाभः। ग्रहहतो न यदि सत्पथवर्त्ती क्षतिकरोऽमरगुरुर्मनुजा-नाम्”।
“वार्हस्पत्येन षष्ट्यव्दम्” सू॰ सि॰।
