गुरुवृत्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरुवृत्ति¦ स्त्री गुरौ वृत्तिः। आचार्य्यादिगुरौ शिष्यैणकर्त्तव्ये आचारभेदे सा च मनुनोक्ता यथा(
“नोदितोगुरुणा नित्यमप्रचोदित एव वा। कुर्य्या-दध्ययने यत्नमाचार्य्यस्य हितेषु च। शरीरञ्चैब वाचं चबुद्धीन्द्रियमनांसि च। नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणीगुरोर्मुखम्। नित्यमुद्धृतपाणिः स्यात् साध्वाचारःसुसंयतः। आस्यतामिति चोक्तः सन्नासीताभिमुखंगुरोः। हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ। उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत्। प्रतिश्रवण-सम्भाषे शयानो न समाचरेत्। नासीनो न च मुञ्जानीन तिष्ठन्न पराङ्मुखः। आसीनस्य स्थितः कुर्य्यादभि-गच्छंस्तु तिष्ठतः। प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तुधावतः। पराङ्मुखस्याभिमुखीदूरस्थस्येत्य चान्तिकम्। प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः। नीचं शय्यासन-ञ्चास्य सर्वदा गुरुसन्निधौ। गुरोस्तु चक्षुर्विषये न यथेष्टा-सनोभवेत्। नोदाहरेदस्य नाम परोक्षमपि केवलम्(अश्रीपूर्वम्)। न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम्। गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते। कर्णौ तत्रपिधातव्यौ गन्तव्यं वा ततोऽन्यतः। परीवादात् खरो-भवति श्वा वै भवति निन्दकः। परिभीक्ता कृमिर्भवतिकीटो भवति मत्सरी। दूरस्थो नार्च्चयेदेनं न क्नुद्धंनान्तिके स्त्रियाः। यानासने न चैवैनमवरुह्याभिवा-दयेत्। प्रतिवातेऽनुवाते च नासीत गुरुणा सह। [Page2623-b+ 38] असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत्। गोऽश्वो-ष्ट्रयानप्रासादस्रस्तरेषु कटेषु च। नासीत गुरुणा सार्द्धंशिलाफलकनौषु च। गुरोर्गुरौ सन्निहिते गुरुवद्वृत्ति-माचरेत्। न चानिसृष्टो गुरुणा स्वान् गुरूनभि-वादयेत्। विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु। प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि। ”( तान्त्रिकगुरौ वृत्तिभेदः तन्त्रसारे उक्तो यथा
“गुरौ सन्निहिते यस्तु पूजयेदग्रतो न तम्। स दुर्गतिमवाप्नोति पूजा च विफला भवेत्” क्रियासारे।
“एकग्रामे स्थितःशिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम्। क्रीशमात्रस्थितो भक्त्यागुरुं प्रतिदिनं नमेत्। अर्द्ध योजनतः शिष्यः प्रणमेत्पञ्चपर्वसु। एकयोजनमारभ्य योजनद्वादशावधि। दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः। तत्रयोजनसंख्योक्तमानेन प्रणमेद्गुरुम्”। ज्ञानार्णवे
“गुरौ मनुष्यबुद्धिन्तु मन्त्रे चाक्षरभावनाम्। प्रति-मासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत्। जन्महेतू हिपितरौ पूजनीयौ प्रयत्नतः। गुरुर्विशेषतः पूज्यो धर्म्मा-धर्मप्रदर्शकः। गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः। शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन। गुरोर्हितंप्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः। अहिताचरणाद्देवि!विष्ठायां जायते कृमिः। मन्त्रत्यागाद्भवेन्मृत्युर्गुरुत्या-गाद्दरिद्रता। गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत्। गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम्। स यातिनरकं घोरं पूजा च विफला भवेत्। एकत्र गुरुणासार्द्धं गच्छेद्वोपविशेत्तु यः। स याति नरकं घोरंयावदिन्द्राश्चतुर्दश। गुरुवाक्यं हतं कृत्वा आत्मवाक्यंतु योजयेत्। गुरूक्तं लङ्घयेद्यस्तु पतेत् स नरकाय वै”। श्रीक्रमे
“उत्पादकव्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता। तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम्। गुरुवद्-गुरुपुत्रेषु गुरुवत्तत्सुतादिषु। अविद्यो वा सविद्यो वागुरुरेव च दैवतम्। अमार्गस्थोऽपि मार्गस्थो गुरुरेवसदा गतिः। आयान्तमग्रतो गच्छेद् गच्छन्तं तमनुब्र-जेत्। आसने शयने वापि न तिष्ठेदग्रतो गुरोः। अ-नुज्ञां प्राप्य तिष्ठेच्च नैवं पापमवाप्नुयात्”। क्रिया-सारे
“गुरुर्माता पिता स्वामी बान्धवः सुहृदः शिवः। इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम्”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरुवृत्ति/ गुरु--वृत्ति mfn. long by nature (vowel) W.
गुरुवृत्ति/ गुरु--वृत्ति f. behaviour towards one's Guru MBh. i , 706
