गुरूत्तम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरूत्तम¦ त्रि॰ गुरूषु गुरूणां वा उत्तमः।
१ पूज्यतमे
२ परमेश्वरेपु॰।
“तस्मै पूर्वगुरूत्तमाय जगतामीशाय पित्रे नमः” आत्म॰ वि॰। अत्र
“न निर्द्धारणे” पा॰ षष्ठीसमासनि-षेधात् सप्तमीतत्पुरुष इति बहवः। कैयटस्तु
“यस्मा-न्निर्द्धार्य्यते यश्च निर्द्धार्प्यते यश्च निर्द्धारणहेतुरेतत्त्रितय-सन्निधाने सत्येवायं निषेधः इति
“द्विवचने विभज्योपपदे” पा॰ सूत्रे भाष्यकार आह स्म। पुरुषोत्तम इत्यादौत्रितयसन्निधानाभावात् न निर्द्धारणविभक्तिः किन्तु सम्ब-न्धसामान्ये षष्ठीति तया समासः। अतएव
“हलादिःशेषः” पा॰ सूत्रे
“हलामादिरिति षष्ठीसमास” इत्युक्तंभाष्ये इत्युवाच
“न निर्द्धारणे इति” सूत्रवृत्तौ नॄणां द्विजःश्रेष्ठः इत्युदाहरता च कौमुदीकारेण त्रितयसन्निधानएव समासाभावः सूचितः। यत्तु गदाधरेण एतदना-लोच्य, षष्ठीसप्तमीसमासयोः स्वरकृतवैलक्षण्यञ्चानालोच्य
“न निर्द्धारणे” इत्यस्य षष्ठीसमासप्रकरणञ्चानवेक्ष्यनिर्द्धारणषष्ठ्या समासनिषेधे तदर्थकसप्तमीसमासोऽपिनिषिद्धः अन्यथा प्रयोगसाम्यात् सूत्रवैयर्थ्यमतो गुरूत्तमइत्यत्र पञ्चमीतत्पुरुषोऽङ्गीकृतः, तत्तु साहलमात्रम् तथाहि
“पञ्चमी विभक्ते” पा॰ सूत्रे निर्द्धार्य्यमाणस्य भेद एवपञ्चमीविधानात् तयोः सामान्यधर्माक्रान्तत्वाभावे एवतस्याः प्रवृत्तेः। यथा माथुराः पाटलिपुत्रेभ्य आढ्यतभाःअत्र पाटलिपुत्रस्थलोकानां माथुराणां च केनापि रूपेणसामान्यधर्मत्वाभावेन उभयोर्भेद एव इति तत्रपञ्चमीप्रवृत्तिः। गुरूत्तम इत्यादौ तु ईशस्यान्यगुरुनिष्ठ-गुरुत्वरूपसामान्यधर्म्माक्रान्तत्वात्तदप्रवृत्तेर्न पञ्चमीसमासः(
“अक्षरादपि चोत्तमः” (गीता) इत्यादौ तु अक्षरा-च्चेतनवर्गात् तमपेक्ष्येति व्याख्या न्यायमते जीवेश्वरयो-र्भेदेऽपि चेतनत्वसामान्यधर्म्माक्रान्तत्वेन तयोर्भेदाभावात्न पञ्चमीप्रसक्तिः। वेदान्तिमते अक्षरशब्दस्य मायाप-रत्वात् ईशमाययोर्भेदसम्भवात् पञ्चमीप्रसक्तिसम्भाव-नायामपि तया पञ्चम्या न समासप्रसक्तिः पञ्चमी-तत्पुरुषस्य वक्ष्यमाणसूत्रभ्यो विषयविशेषनियतत्वेनात्र[Page2624-b+ 38] तदप्रसक्तेः। अक्षरशब्दस्य मायापरत्वञ्च गीताव्याख्यायांमधुसूदनेन दर्शितं यथा(
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरःसर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” गीता।
“द्वौ इमौपृथग्राशीभूतौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौलोके संसारे, कौ तावित्याह क्षरश्चाक्षर एव च। क्षरतीति क्षरो विनाशी कार्य्यराशिरेकश्च पुरुषः, नक्षरतीत्यक्षरो विनाशरहितः। क्षरस्य पुरुषस्योत्पत्ति-वीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः। तौ पुरुषौ,व्याचष्टे स्वयमेव भगवान्, क्षरः सर्वाणि भूतानि समस्तंकार्य्यजातमित्यर्थः कूटस्थः कूटो यथार्थवस्त्वाच्छादनेना-यथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरं तेनावरण-विक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवन्माया-शक्तिरूपः कारणोपाधिः संसारवीजत्वेनानन्त्यादक्षरउच्यते। केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थोक्षर उच्यत इत्यनेन जीवमाहुः तन्न सम्यक्, क्षत्रज्ञस्यैवेह पुरुषोतमत्वेन प्रतिपाद्यत्वात् तस्मात् क्षरा-क्षरशब्दाभ्यां कार्य्यकारणोपाधी उभावपि जडावेवो-च्येते इत्येव युक्तम्। आभ्यां क्षराक्षराभ्यां विल-क्षणः क्षराक्षरोपाधिद्वयदोषेणोऽस्पृष्टो नित्यशुद्धबुद्ध-मुक्तस्वभावः
“उत्तमः पुरुषस्त्वन्यः परमात्म्येत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” (गीता)। उत्तम उत्कृष्टतमः पुरुषस्त्वन्यः अन्य एव अत्यन्तविलक्षणआभ्यां जडराशिभ्याम्, उभयभासकस्तृतीयश्चेतनराशि-रित्यर्थः। परमात्म्येत्युदाहृतः अन्नमयप्राणमयम-नोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पिता-त्मभ्यः परमः प्रकृष्टोऽकल्पितः
“ब्रह्म पुच्छं प्रतिष्ठा” इत्त्युक्तआत्म्म च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्यु-क्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूभुवःस्वरा-ख्यं सर्वं जगदिति यावत् आविश्य स्वकीयया माययाशक्त्याधिष्ठाय बिभर्त्ति सत्तास्फूर्त्तिप्रदानेन धारयतिपोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरःसर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्यु-दाहृत इत्यन्वयः”। अतः
“यस्मात् क्षरमतीतोऽक्षरादपिचोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” गीतावाक्ये अक्षरादितिल्यब्लोपे पञ्चमी मध्यपदलोपःअक्षरमतीत्य उत्तम इत्यर्थः। पुरुषोत्तम इत्यत्र पुरुषपदा-र्थानां पुरुषोपाधिद्वयतद्विलक्षणसुख्यपुरुषाणां मध्ये उत्तम[Page2625-a+ 38] इत्यर्थः द्वाविमावितिक्षराक्षरपुरुषयोः
“उत्तमः पुरुषस्त्वन्य” इति त्रयाणामेव पूर्वं प्रक्रान्तत्वात्तेषां मध्ये एवपरमात्मन उत्तमत्वेन निर्द्धार्य्यमाणत्वात् अतो न तत्रापिपञ्चमीसमासः। तथाहि
“पञ्चमी भयेन” पा॰
“अपतापो-ढमुक्तपतितापत्रस्तैरल्पशः”
“स्तोकान्तिकदूरार्थकृच्छ्रणिक्तेन” पा॰ सूत्रैः पञ्चमीतत्पुरुषस्य विधानात् तन्मध्येच एतत्पञ्चम्याः पाठाभावात् नात्र पञ्चमीतत्पुरुषःकिन्तु सप्तमीसमासः षष्ठोसमासो वेत्येवेति ज्यायः।
