सामग्री पर जाएँ

गुर्व्वादित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गुर्व्वादित्य¦ पु॰ गुरुणा सह आदित्यो यत्र। ज्योति-षोक्ते कालाशुद्धिहेतौ एकराश्येकनक्षत्रस्थयोर्जीवादि-त्ययोर्योगभेदे
“गुर्वादित्ये दशाहिकम्” ज्यो॰ त॰।
“एकराशौ गतौ स्यातामेकर्क्षविषये यदि। गुर्वादित्यौ,तदा त्याज्या यज्ञोद्वाहादिकाक्रियाः” राजमा॰।
“गुर्वादित्ये दशाहे त्विति” नक्षत्रभेदविषयम्। अत्यन्ता-वश्यकत्वे भुजबलभीमः
“जीवोऽर्केण युतः करोतिमरणं, बालांशुको भागुरिः नक्षत्रैकगतो वदन्ति मरणं,पादस्थितो देवलः” तथा च एकराशिस्थत्वेऽकालः अत्य-न्तावश्यकत्वे एकनक्षत्रपादस्थितौ दशाहं त्यक्त्वायज्ञादि कर्त्तुं शक्यते इति व्यबस्था।

"https://sa.wiktionary.org/w/index.php?title=गुर्व्वादित्य&oldid=335405" इत्यस्माद् प्रतिप्राप्तम्