गुह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह, ऊ ञ संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां- उभं-सकं-वेट् ।) ह्रस्वी । ऊ, अगूहीत् अघु- क्षत् । ञ, गूहति गूहते । गुहो णोरूरिति दीर्घः । इति दुर्गादासः ॥

गुहः, पुं, (गूहति रक्षति पालयतीत्यर्थः देव- सेनाम् । गुह + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः । नामनिरुक्तौ तु गुहा आवासत्वेनास्त्यस्येति अच् । एतयोर्व्युत्पत्ति- द्वययोरेव क्रमान्वयेनोदाहरणे द्रष्टव्ये । यथा, महाभारते । ३ । २२८ अध्याये । “रुद्रसूनुं ततः प्राहुर्गुहं गुणवताम्बरम् ।” इत्युपक्रम्य । “अथैनमभ्ययुः सर्वा देवसेनासहस्रशः । अस्माकं त्वं पतिरिति ब्रुवाणाः सर्व्वतो दिशः ॥” इत्यन्तेन महात्मा कार्त्तिकेयः सैनापत्यार्थं देवैः प्रार्थितः । ततो नामनिरुक्तिः । यथा, महा- भारते । १३ । ८५ । ८०--८३ । “दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः । ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम् ॥ स्कन्नत्वात् स्कन्दताञ्चापि गुहावासाद्गुहोऽभवत् ॥”) कार्त्तिकेयः । इत्यमरः । १ । १ । ४२ ॥ घोटकः । इति शब्दरत्नावली ॥ श्रीरामसखः । स तु शृङ्गवेरपुरवासी निषादाधिपतिः । (यथा, रामा- यणे । २ । ५० । ३३ । “तत्र राजा गुहो नाम रामस्यात्मसमः सखा । निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥” गूहते संवृणोति स्वरूपादीनि मायया इति । गुह + कः ।) विष्णुः । (यथा, महाभारते । १३ । १४९ । ५४ । “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ६० । “व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥”) कायस्थानां पद्धतिविशेषः ॥ (यथा, कायस्थ- कुलदीपिकायाम् । “अयं गुहकुलोद्भवो दशरथाभिधानो महान् कुलाम्बुजमधुव्रतो विविधपुण्यपुञ्जान्वितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।39।2।5

कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह¦ संवरणे भ्वा॰ उभ॰ सक॰ वेट्। गूहति ते अगूहीत्अघुक्षत्। अगूहिष्ट अगूढ अघुक्षत अगूहिषत अघुक्षन्त। अगूहिषि अघुक्षि। अगूहिष्वहि अगुह्वहि अघुक्षा-वहि। जुगूह जुगुहे
“गूहिता गोढा। गुह्यात्। गूहिषीष्ट घुक्षीष्ट गूहिष्यति--ते--धोक्ष्यति--ते, गुह्यम्गोह्यम्। गूहनं गुहः गुहा। सन् जुघुक्षति
“जुगूहतस्याः पथि लक्ष्मणो यत्” रघुः।
“अगूहीच्छायकैर्दिशः” गूहिष्यामि क्षितिं कृत्तैः” भट्टिः
“गूहेत् कूर्म इवाङ्गानि” [Page2627-a+ 38] मनुः।
“जुगूहे दक्षिणे पार्श्वे” भा॰ वि॰

२३

५ श्लो॰।
“गूहन्ति मेघा इव रश्मिवन्तम्” भा॰ भी॰

७९

२ श्लो॰।
“आकारो गूहितं शक्यः” भा॰ द्रो॰

४४

७ श्लो॰।
“अगूढसद्भावमितीङ्गितज्ञया” कुमा॰। णिच् गूह-यति ते अजूगुहत् त।
“न देवामपि ह्रुतः सुमति नजुगुक्षतः” ऋ॰

८ ।

३१ ।

७ । क्विप् घुट् गुहौ गुहः।
“विश्वायुरग्ने गुहा गुहं गाः” ऋ॰

१ ।

६७ ।

३ । अप + अपनयने
“अपागूहन्नमृतां मर्त्येभ्यः” ऋ॰

१० ।

१७ ।

२ ।
“अपागूहन् अपनीतवन्तः” भा॰। संवरणे च।
“मात्मानमप गूहथाः” अथ॰

४ ।

२० ।

५ । अव + सम्यग्संवरणे।
“यूपशकलमवगूहति” शत॰ ब्रा॰

३ ।

७ ।

१ ।

२२ ।
“उष्णीषं संहृत्य पुरस्तादवगूहति”

५ ।

३ ।

५ ।

२३ । उद् + उत्क्षिप्य संवरणे।
“नीविमुद्गूहते” शत॰ ब्रा॰

३ ।

२ ।

१ ।

१५ । उप + आलिङ्गने
“गाढं चोपजुगूहैनम्” भट्टिः
“छाया-च्छलेनोपजुगूह लक्ष्मीः” रघुः।
“उपगूढानि सवेपथूनिच” कुमा॰।
“तरङ्गहस्तैरुपगूहतीव” रघुः आश्लेषणेच।
“कश्चित् कराभ्यामुप्रगूढनालम्” रघुः। नि + अतिशयसंवरणे।
“देवात्मशक्तिं स्वगुणैर्निगूढाम्” श्वेता॰ उप॰। समादिपूर्वस्य तत्तदुपसर्गद्योत्यार्थसंयुतसंवरणे

गुह¦ पु॰ गूहति देवसेनाम् गुह--क।

१ कार्त्तिकेये
“सैनापत्येन देवानामभिषिक्तो गुहस्तदा” भा॰ व॰

३८ अ॰।
“अथैनमभ्ययुः सर्वादेवसेनाः सहस्रशः। अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः” भा॰ व॰

२२

८ अ॰।
“गुहोऽपि येषां प्रथमाप्तजन्मनाम्” कुमा॰तस्य देवसेनारक्षकत्वेन सेनापतित्वात् तथात्वम्। भा॰ आनु॰

८५ अ॰ गुहनामनिरुक्तिरन्यथोक्तो यथा
“स्कन्नत्वात् स्कन्दनामायं गुहावासाद्गुहोऽभवत्”। अत्रपक्षे गुहा आवासत्वेनास्त्यस्य अच्।

२ अश्वे पुंस्त्री शब्द-रत्ना॰ एतदाशयेन
“यत्राश्वा बिलयोनयः” कुमा॰ उक्तम्। देवखातरूपविलोत्पन्नत्वात्तथात्वम्।

३ परमेश्वरे।
“करणंकारणं कर्त्ता विकर्त्ता गहनो गुहः विष्णुस॰।
“गूहति संवृणोति स्वरूपं माययेति गुहः” भा॰
“नाहंप्रकाशः सर्वस्य योगमायासमावृतः” इति गीतोक्तेस्तस्यस्वमायया स्वात्मरूपसंवरणात्तथात्वम्। गुहारूपमाया-हृदयाद्याश्रयत्वात् वा तथात्वम्। गुहाशयशब्दे दृश्यम्। रामायणप्रसिद्धे शृङ्गवेरपुराधीशे चण्डालजातीये

४ राममित्रे च पु॰। आससाद महावीरः शृङ्गवेरपुरं[Page2627-b+ 38] प्रति” इत्युपक्रमे
“यत्र राजा गुहो नाम रामस्यात्म-समः सखा। निषादजात्यो बलवान् स्थपतिश्चेतिविश्रुतः” इत्यादिना
“सहं सौमित्रिणा रामः समागच्छत्गुहेन स” इत्यन्तेन रामा॰ अबोध्याकाण्डे तत्सख्यय-क्तम्।

५ सिंहपुच्छीलतायाम् (चाकुलया)

६ पर्वतादिग-ह्वरे स्त्री मेदि॰। तस्य सर्वसत्वसवारकत्वात् तथात्वम्।
“गुहानिबद्धप्रतिशब्ददीर्घम्”
“प्रतिस्वनेनास्य गुहागतेन” रघुः

८ शालपर्ण्णीवृक्षे (शालपाण) राजनि॰ अकृत्रिमे

९ देवखाते,

१० हृदये च स्त्री शब्दार्थचि॰। हृदयस्य गुहा-तुल्यत्वात् तथात्वम् यथाह शत॰ ब्रा॰

११ ।

२ ।

६ ।

५ ।
“तस्मादिदं गुहा हृदयम्”।
“गुहां प्रविष्टौ सुकृतस्यलोके” श्रुतिः

११ मायायां च।
“योन येद निहितंगुहायां परमव्योमन्” श्रुतिः गुहाहितं गह्वरेष्ठंपुराणम्”
“आत्मा गुहायां निहितः” श्रुतिः। वृषा॰ आद्युदात्तः।

१२ गुहाधिष्ठातृदेवतायाम् स्त्री।
“गुहाभ्यः किरातम्” यजु॰

३० ।

१७ । पुरुषमेषे।

१३ बुद्धौ। गुह--भावे भिदा॰ अङ्।

१४ संवरणे स्त्री। गुह + अश्मा॰ अस्त्यर्थे र। गुहर तद्युक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह¦ r. 1st cl. (ऊ)गुहू(गुहति) To cover, to cover as with clothes. to wear.

गुह¦ m. (-ह)
1. A name of KARTIKEYA.
2. A name of VISHNU.
3. A swift horse.
4. The name of Nishada, ruler of Sringavera, the friend of [Page242-b+ 60] RAMA.
5. A name or title proper to persons of the writer caste. f. (-हा)
1. A cave, a cavern.
2. A pit, a hole in the ground.
3. A plant, commonly Chakuliya: see सिंहपुच्छी। E. गुह to conceal, affixes अङ् and टाप।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहः [guhḥ], [गुह्-क]

An epithet of Kārtikeya; गुह इवाप्रति- हतशक्तिः K.8; Ku.5.14.

A horse.

N. of a Chāṇḍāla or Niṣāda, king of Śṛiṅgaver and a friend of Rāma.

An epithet of Viṣṇu; also of Śiva.-Comp. -कम् (pl.) the number six. -राजः the peculiar form of construction of a temple. -षष्ठी the sixth day in the first fortnight of मार्गशीर्ष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह m. ( g. अश्मा-दि)" reared in a secret place " , N. of स्कन्द(the god ; See. कार्त्तिकेय) MBh. iii , ix , xiii Hariv. 10478 Sus3r. Kum. etc.

गुह m. N. of शिवMBh. xiii , 1263

गुह m. of विष्णुW.

गुह m. of a king of the निषादs (friend of राम) R. i f. , vi Mcar. iv , 60/7

गुह m. N. belonging to persons of the writer caste W.

गुह m. a horse (" a swift horse " W. ) L.

गुह m. pl. N. of a people in the south of India MBh. xii , 7559

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(God सुब्रह्मण्य, सेनापति) a son of अम्बिका (पार्वति) was born as साम्ब, son of कृष्ण. तीर्थ sacred to, in the सरस्वती visited by Vidura. फलकम्:F1:  भा. III. 1. २२. and ३०. Br. III. २४. 4; IV. ३०. १०४; वा. ३०. ३१५; ३९. ५५, ४१. ४०; Vi. V. ३३. २६.फलकम्:/F Guha is said to hve shot arrows at क्रौञ्च hill. फलकम्:F2:  भा. V. २०. १९.फलकम्:/F Fought with तारक in the देवासुर war and with Pradyumna at शोनितपुर. फलकम्:F3:  Ib. VIII. १०. २८; X. ६३. 7.फलकम्:/F Relieved Mucukunda defending Heaven. फलकम्:F4:  Ib. ५१. १६.फलकम्:/F With peacock as riding animal, defended त्रिपुरारि's chariot; birth of, in a शरवन, as a baby of seven days killed Asura तारक. फलकम्:F5:  M. १३३. ६४; १४०. ४०; १४६. १०-11; २६६. ४२.फलकम्:/F Weapon शक्ति. फलकम्:F6:  Vi. III. 2. १२.फलकम्:/F [page१-540+ २५]
(II)--the ruler of kingdoms Kalinga, महिष, Mahendranilaya, etc. Br. III. ७४. १९८; वा. ९९. ३८६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GUHA : King of the country of Niṣādas alias Śṛṅgi- verapura, on the banks of the river Gaṅgā. Śrī Rāma when he went on exile to the forests went to the resi- dence of Guha accompanied by Lakṣmaṇa and Sītā. Guha, a devotee of Rāma, received them with respect offering them many kinds of fruits and roots to eat. But Śrī Rāma said that it was not proper to accept fruits and roots and so he drank only pure water from him. But Guha was asked to feed his horse. At night when Lakṣmaṇa stood watch over Rāma and Sītā, Guha volunteered to stand guard but Lakṣmaṇa refused to accept the offer. So Guha kept company with Lakṣmaṇa and both of them spent the night talking to each other. In the morning as per Rāma's request Guha brought a canoe and Guha himself took Rāma, Lakṣmaṇa and Sītā to the other side of the river. (Sarga 50, Vālmīki Rāṃāyaṇa, Ayodhyā Kāṇḍa).

Guha is seen next when Bharata comes to the forest in search of Rāma. When Bharata returned from Kekaya he went in search of Śrī Rāma and Lakṣmaṇa and came to Guha in Śṛṅgiverapura. Guha then gave Bharata all available information regarding Śrī Rāma. Guha then sent the Dāśa army along with Bharata. (Sarga 84, Ayodhyā Kāṇḍa, Vālmīki Rāmāyaṇa).

Guha, chief of Śṛṅgiverapura, spent the night with Rāma and Lakṣmaṇa under an Oka tree. (Chapter 6, Agni Purāṇa).


_______________________________
*8th word in left half of page 301 (+offset) in original book.

GUHA(S) : A tribe of people of ancient India. Āndhras, Pulindas, Cucukas, Guhas, Śabaras and Bhadras are some of the tribes of the south. (Śloka 42, Chapter 207, Śānti Parva).


_______________________________
*1st word in right half of page 301 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गुह&oldid=429023" इत्यस्माद् प्रतिप्राप्तम्