गूढव्यङ्ग्या
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गूढव्यङ्ग्या¦ स्त्री गूढं काव्यार्घभावनापरिपक्वबुद्धिमात्रवे-द्यम् व्यङ्ग्यं यत्र। लक्षणाभेदे
“व्यङ्ग्यस्य गूढागू-ढत्वात् द्विधा स्यात् फललक्षणा” सा॰ द॰। यथा
“उपकृतंबहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव अदा सखे! सुखितमास्स्व ततःशरदां शतम्”
