गोत्रभाग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोत्रभाग¦ पु॰ गोत्राणामेकगोत्रजातानां भागः। गोत्र-जातानां परस्परविभागे
“गोत्रसाधारणं त्यक्त्वायोऽन्यदेशं समाश्रितः। तद्वंश्यस्यागतस्यांशः प्रदातव्योन संशयः। तृतीयः पञ्चमश्चैव सप्तमोवापि यो भवेत्। जन्मनामपरिज्ञाने लभेतांशं क्रमागतम्। यं परम्प-रया मौलाः सामन्ताः स्वामिनं विदुः। तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही। भुक्तिस्त्रैपुरुषी सिध्येदपरेषां न संशयः। अनिवृत्ते सपिण्डत्वे सकुल्यानांन सिध्यति। अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणा-दिकम्। सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते। विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च। सुदीर्घे-णापि कालेन तेषां सिद्ध्यति तत्तु न” वृहस्पतिः गोत्रसाधारणं द्रव्यमिति शेषः विवाह्यो जामाता
