गोपी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपी, स्त्री, (गोपस्य स्त्री । “पुंयोगादाख्या- याम् ।” ४ । १ । ४८ । इति ङीष्) गोपपत्नी । वृन्दावनस्थगोपीनां स्वरूपं यथा, -- “गोप्यस्तु श्रुतयो ज्ञेयाः स्वाधिजा गोपकन्यकाः । देवकन्याश्च राजेन्द्र ! न मानुष्यः कथञ्चन ॥” * ॥ तत्र व्रजबाला यथा, -- पूर्णरसा रसमन्थरा रसालया रससुन्दरी रसपीयूषधामा रसतरङ्गिणी रसकल्लोलिनी रसवापिका अनङ्गमञ्जरी अनङ्गमानिनी मद- यन्ती रङ्गविह्वला ललिता ललितयौवना अनङ्ग- कुसुमा मदनमञ्जरी कलावती रतिकला कल- कण्ठी अब्जास्या रतोत्सुका रतिसर्व्वस्वा रति- चिन्तामणिः इत्याद्याः ॥ * ॥ शुतिगणा यथा, --

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपी स्त्री।

शारिवा

समानार्थक:गोपी,श्यामा,शारिवा,अनन्ता,उत्पलशारिवा

2।4।112।1।1

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपी¦ स्त्री गोपजातिः स्त्री जातौ ङीष्।

१ गोपजातिस्त्रि-याम्। वृन्दावनस्थगोप्यश्च श्रुतिदेवमुनिकन्यारूपा यथापद्मपु॰ पाता॰
“गोप्यस्तु श्रुतयो ज्ञेयाः स्वधिका गोप-कन्यकाः। देवकन्याश्च राजेन्द्र! न मानुष्यः कथ-ञ्चन”। तत्र श्रेष्ठा राधाचन्द्रावलीविशाखाललितादयः। मूलम् उज्ज्वलमणौ दृश्यम्।
“इत्येवं दर्शयन्त्यस्ताश्चैवंगोप्योविचेतसः” भाग॰

१० ।

३ ।

३२ । स्क॰ प्रभा॰ ख॰ तुचन्द्ररूपक्रष्णस्य कलारूपता तासामुक्ता यथा।
“ततो गोप्योमहादेवि! आद्यायाः षोडश स्मृताः। तासां नामानिते वक्ष्ये तानि ह्येकमनाः शृणु। लम्बिनी चन्द्रिकाकान्ता कूठा शान्ता महोदया। भीषणी नन्दनी शोकासुपुर्ण्णा विमलाऽक्षया। शुभदा शोभना पुण्या हंससुताः कलाः क्रमात्। हंसएव मनः कृष्णः परमात्मा-जनार्द्दनः। तस्यैताः शक्तयो देवि! षोडशैव प्रकीर्त्तिताःचन्द्र रूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः संपूर्णमण्डला तासां मालिनी षोडशी कला। प्रतिपत्तिथिमारभ्य विहरत्याशु चन्द्रमाः। षौडशैव कला यास्तुगोपीरूपा वरानने! एकैकशस्ताः संभिन्नाः सहस्रेण[Page2711-b+ 38] पृथक् पृथक्”। गोपायति गुप--अच् गोस्त्र॰ ङीष्।

२ रक्षिकायां स्त्रियाम्
“गीतानि गोप्याः कलमं मृग-व्रजः” माघः। स्वार्थे क। गोपिका तत्रार्थे
“सहा-समालोकयति ख गोपिका” माघः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपी/ गो-पी f. id. L.

गोपी/ गो-पी f. ( Vop. iv , 22 ; See. Pa1n2. 4-1 , 48 )a cowherd's wife Hit. ii , 7 , 0/1

गोपी/ गो-पी f. a cow-herdess , milkmaid ( esp. the cowherdesses of वृन्दावन, companions of कृष्ण's juvenile sports , considered sometimes as holy or celestial personages ; See. RTL. pp. 113 and 136) MBh. ii , 2291 Hariv. 4098 BhP. Gi1t.

गोपी/ गो-पी f. a protectress , female guardian Ragh. iv , 20 ( ifc. )

गोपी/ गो-पी f. = प्रकृति, nature Kramadi1p.

गोपी/ गो-पी f. Abrus precatorius L. (See. अहि-, इन्द्र-, कुल-, त्रिदश-, वात-, सुरे-न्द्र-.)

गोपी f. of पSee.

"https://sa.wiktionary.org/w/index.php?title=गोपी&oldid=340550" इत्यस्माद् प्रतिप्राप्तम्