सामग्री पर जाएँ

गोष्ठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गोष्ठी, स्त्री (गावः बहुविधा वाचस्तिष्ठन्त्यत्र । गो + स्था + कः । स्त्रियां ङीष् ।) सभा । तस्या लक्षणविशेषः । “एकाङ्का कथिता गोष्ठी कैशिकीवृत्तिसंयुता । सम्भोगरसषट् पञ्च सप्त वा योषिदन्विता ॥ प्राकृतैर्नवभिः पुंभिर्दशभिर्व्वाप्यलङ्कृता । गर्व्वावमर्षसन्धिभ्यां हीना प्राकृतसम्मता ॥ वाद्याद्यैरन्विता नैव कर्त्तव्येयं विचक्षणैः ॥” इति सङ्गीतदामोदरः ॥ (गावोऽनेका वाचस्तिष्ठन्ति यत्र । गो + स्था + घञर्थे कः । ततः “अम्बाम्बगोभूमीति ।” ८ । ३ । ९७ । इति षत्वम् ।) संलापः । इति मेदिनी । ठे । ४ ॥ (यथा, पञ्चतन्त्रे । १ । ४०० । “एवमनुष्ठिते चत्वारोऽपि ते एकस्थाने विहा- रिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्त- स्तिष्ठन्ति ॥”) पोष्यवर्गः । यथा, चाणक्ये । “विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥” (यथा च राजेन्द्रकर्णपूरे । ४७ । “कृत्वा बेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गोष्ठी स्त्री।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।1।3

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गोष्ठी¦ स्त्री गावोऽनेकावाचस्तिष्ठन्ति अत्र स्था--घञर्थे क।

६ त॰ अम्बाम्बेति षत्वम्” गौरा॰ ङीष्।

१ सभायांपरिषदि।
“तत्र गोष्ठीषु रथ्यासु सिद्धप्रव्रजितेषु च। भा॰ वि॰

६ ।

२ परस्परालापे
“गोष्ठीसुखमनुभवन्त-स्तिष्ठन्ति” हितो॰।

३ पोष्यवर्गे च”।
“विषं गोष्ठीदरिद्रस्य” चाणक्यः।

४ समूहे गोष्ठशब्दे उदा॰। सभायाम् अस्य पुंस्त्वमपि।
“समुच्छ्रयान् पर्वतसन्नि-राधान् गोष्ठान् हरीणां गिरिसेतुमालाः। भा॰ व॰

१७

७ अ॰। [Page2726-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गोष्ठी/ गो--ष्ठी f. an assembly , meeting , society , association , family connections ( esp. the dependent or junior branches) , partnership , fellowship MBh. (metrically ष्ठि, v , 1536 ) etc.

गोष्ठी/ गो--ष्ठी f. of -ष्ठSee.

"https://sa.wiktionary.org/w/index.php?title=गोष्ठी&oldid=342495" इत्यस्माद् प्रतिप्राप्तम्