घनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनः, पुं, (घनति दीप्यते इति । घन दीप्तौ + अच् ।) मेघः । (यथा, महाभारते । १ । १३७ । २४ । “ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाश समीपोपगतान् घनान् ॥”) मुस्ता । ओघः । दार्ढ्यं । विस्तारः । (हन्यते वध्यतेऽनेन । हन् + “मूर्त्तौ घनः ।” ३ । ३ । ७७ । इति अप् घनादेशश्च ।) लौहमुद्गरः । इति मेदिनी । ने । ३ ॥ (यथा, भारविः । १८ । १ । “धनुरपास्य सबाणधिशङ्करः प्रतिजघान घनैरिव मुष्टिभिः ॥”) शरीरम् । कफः । अभ्रकम् । इति राज- निर्घण्टः ॥ सजातीयाङ्कत्रयस्य पूरणम् । यथा, “समस्त्रिघातश्च घनः प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः । आदित्रिनिघ्नस्तत आदिवर्ग- स्त्र्यन्त्याहतोऽथादिघनश्च सर्व्वे ॥” इति लीलावती ॥ (वेदपाठविशेषः । यथा, -- “जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः ॥”)

घनः, त्रि, (हन्यते इति । हन् + अप् घना- देशश्च ।) निविडः । तत्पर्य्यायः । निरन्तरः २ सान्द्रः ३ । इत्यमरः । ३ । १ । ६६ ॥ (यथा, रघुः । ८ । ९१ । “स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज्ज मुनिम् । तदलब्धपदं हृदिं शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥”) दृढः । इति मेदिनी । ने । ४ ॥ (यथा, रघुः । ११ । ११८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ॥”) पूर्णः । (यथा, महाभारते । १ । १३६ । २८ । “किंस्विदापूर्य्यते व्योम जलधारावनैर्घनैः ॥”) सम्पुटः । इति शब्दरत्नावली ॥ (निरवकाशः । यथा, पञ्चतन्त्रे । ३ । २३६ । “किं गाण्डीवस्फुरगुरुघनास्फालनक्ररपाणि- र्नासील्लीलानटनविलसन् मेखली सव्यसाची ॥”)

"https://sa.wiktionary.org/w/index.php?title=घनः&oldid=133125" इत्यस्माद् प्रतिप्राप्तम्