चकितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकितम्, त्रि, (चक भ्रान्तौ + क्तः ।) भीतम् । इति त्रिकाण्डशेषः ॥ (यथा, कलाविलासे । २ । ८ । “दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽव- गुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ क्ली, भावे क्तः । भयम् । नायिकालङ्कारविशेषः । तल्लक्षणं यदुक्तं साहित्यदर्पणे । ३ । १२१ । “कुतीऽपि दयितस्याग्रे चकितं भयसम्भ्रमः ॥”) “प्रियाग्रे चकितं भीतेरस्थानेऽपि भयंमहत् ।” इत्युज्ज्वलनीलमणिः ॥ (स्त्री, छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् । “भात् समतनगैरष्टच्छेदे स्यादिह चकिता ॥”)

"https://sa.wiktionary.org/w/index.php?title=चकितम्&oldid=133411" इत्यस्माद् प्रतिप्राप्तम्