चक्रकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकः, त्रि, (चक्र इव कायति प्रकाशते इति । कै + कः ।) तर्कविशेषः । तस्य लक्षणं यथा । स्वापेक्ष- णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम् । अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञान- जन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्य- ज्ञानभिन्नं स्यात् । द्वितीया यथा । घटोऽयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्य- जन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत इति । इति तर्कशास्त्रम् ॥ (वेदान्तदर्शनमते तु “स्वग्रहसापेक्षग्रहकत्वं आत्माश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहकत्वं अन्योन्याश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम् चक्रकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रकः&oldid=133421" इत्यस्माद् प्रतिप्राप्तम्