चक्रधरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधरः, पुं, (धरतीति । धृ + अच् । चक्रं सुदर्शनाख्यं द्बादशारादिलक्षणलक्षितमस्त्रम् । तस्य धरः । चक्रं धरति धारयतीति वा ।) विष्णुः । (यथा, रघुः । १६ । ५५ । “विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥” चक्रं फणा तस्य धरः ।) सर्पः । (यथा, महा- भारते । ३ । ८५ । ७० । “अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे । तथा नागाः सुपर्णाश्च सिद्धाश्चक्रधरास्तथा ॥”) ग्रामजालिनि त्रि । इति मेदिनी ॥ (यथा, महाभारते । ३ । ८५ । ७६ । “यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रधरः&oldid=133439" इत्यस्माद् प्रतिप्राप्तम्