चक्रवर्त्तिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्ती, [न्] पुं, (चक्रं पद्माकारशुभचिह्नं करे वर्त्तते यस्य । वृत् + णिनिः । यद्वा चक्रं पृथ्वीचक्रं तेन वर्त्तते इति । वृत + णिनिः ।) समुद्रपरिवृतायाः सर्व्वभूमेरीश्वरः । तत्पर्य्यायः । सार्व्वभौमः २ । इत्यमरः । २ । ८ । २ ॥ (यथा, शकुन्तलायां १ म अङ्के । “जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”) वास्तूकम् । इति राजनिर्घण्टः ॥ (श्रेष्ठः । यथा, गीतगोविन्दे । १ । २ । “वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्त्ती ॥” “चारणचक्रवर्त्ती नर्त्तकश्रेष्ठः ।” इति तट्टी- कायां चैतन्यदासः । यद्वा पद्मावती महालक्ष्मीः राधा तस्याश्चरणचारर्णे परिचर्य्यायां यच्चक्रं मण्डलं तत्र वर्त्तते इति व्युत्पत्त्या वैष्णवसम्प्र- दाचिविशेषः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्तिन्¦ पु॰ चक्रे भूमण्डले, वर्त्तितुं, चक्रं सैन्यचक्रंवा सर्व्वभूमौ वर्त्तयितुं शीलमस्य वृत--वृत--णिच्--वाणिनि।

१ समुद्रपर्य्यन्तक्षितेरधीश्वरे, अमरः

२ वास्तूक-शाके राजनि॰।

३ जतुकायां शब्दार्तचि॰

५ जटामा-स्याम्

४ अलक्तके च स्त्री ङीप् राजनि॰।

५ जनीसाम-[Page2840-a+ 38] गन्धद्रव्ये स्त्री अमरः चक्र इव वर्त्तते। चक्रवाकतुल्ये त्रि॰
“तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ। आसमुद्र-क्षितीशोऽपि भवान् यत्र करप्रदः” उद्भटः।
“यश्चक्र-वर्त्तित्वमवाप वीरः स्वैः कर्म्मभिः शक्रसमप्रभावः” हरिव॰

१५

४ अ॰।
“वृन्दैर्गजानां गिरिचक्रवर्त्ती” कुमा॰।
“जन्म यस्व पुरोर्वंशे युक्तरूपमिदं तव। पुत्रमेवं गुणोपेतंचक्रवर्त्तिनमाप्नुहि” शकु॰।
“विद्याधरराज्यमिव चक्र-वर्त्तिनरवाहनोचितम्” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्तिन्¦ m. (-त्तीं) An emperor, a sovereign of the world, the ruler of a Chakra or country described as extending from sea to sea; twelve princes beginning with Bharata are especially considered as Chakravartis. E. चक्र a reign, and वृत् to abide, affix णिच् वा णिन् |

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्त्तिन्&oldid=352407" इत्यस्माद् प्रतिप्राप्तम्