चक्रवर्त्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्ती, [न्] पुं, (चक्रं पद्माकारशुभचिह्नं करे वर्त्तते यस्य । वृत् + णिनिः । यद्वा चक्रं पृथ्वीचक्रं तेन वर्त्तते इति । वृत + णिनिः ।) समुद्रपरिवृतायाः सर्व्वभूमेरीश्वरः । तत्पर्य्यायः । सार्व्वभौमः २ । इत्यमरः । २ । ८ । २ ॥ (यथा, शकुन्तलायां १ म अङ्के । “जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”) वास्तूकम् । इति राजनिर्घण्टः ॥ (श्रेष्ठः । यथा, गीतगोविन्दे । १ । २ । “वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्त्ती ॥” “चारणचक्रवर्त्ती नर्त्तकश्रेष्ठः ।” इति तट्टी- कायां चैतन्यदासः । यद्वा पद्मावती महालक्ष्मीः राधा तस्याश्चरणचारर्णे परिचर्य्यायां यच्चक्रं मण्डलं तत्र वर्त्तते इति व्युत्पत्त्या वैष्णवसम्प्र- दाचिविशेषः ॥)

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्त्ती&oldid=133478" इत्यस्माद् प्रतिप्राप्तम्