चक्रवाकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाकः, पुं स्त्री, (चक्र इत्याख्यया उच्यतेऽसौ । वच + कर्म्मणि घञ् । ततो “न्यङ्कादीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।) पक्षिविशेषः । चकाचकि इति भाषा ॥ (यथा, महाभारते । १ । ६६ । ५९ । “धृतराष्ट्री तु हंसांश्च कलहसांश्च सर्व्वशः । चकवाकांश्च भद्रं ते जनयामास सैव तु ॥”) तत्पर्य्यायः । कोकः २ चक्रः ३ रथाङ्गाह्वय- नामकः ४ । इत्यमरः । २ । ५ । २२ ॥ भूरि- प्रेमा ५ द्वन्द्वचारी ६ सहायः ७ कान्तः ८ कामी ९ रात्रिविश्लेषगामी १० रामावक्षोजो- पमः ११ कामुकः १२ । अस्य मांसगुणाः । लघुत्वम् । स्निग्धत्वम् । बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, चरके सूत्रस्थाने २७ अ । “चक्रवाकास्तथान्ये च खगाः सन्त्यम्बुचारिणः ।”)

"https://sa.wiktionary.org/w/index.php?title=चक्रवाकः&oldid=133480" इत्यस्माद् प्रतिप्राप्तम्