चक्रवालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवालः, पुं, (चक्रेण चक्राकारेण वलते लोका- लोकौ परिवेष्ट्य विराजते इत्यर्थः । वल + बाहु- लकात् णः । अस्य पर्व्वतस्य लोकालोकपरि- वेष्टनकारितयाविराजमानत्वात्तथात्वम् ।) लोका- लोकपर्व्वतः । इत्यमरः । २ । ३ । २ ॥ (मनुष्यादीनां मण्डलाकारेणस्थितिः । यथा, हरिवंशे । ७६ । ३५ । “एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः । शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रवालः&oldid=133489" इत्यस्माद् प्रतिप्राप्तम्