चक्रवालम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवालम्, क्ली, (चक्रमिव वाडते वेष्टयतीति । वाड + अच् । डस्य लत्वम् ।) मण्डलाकारेण परिणतं समूहमात्रम् । मण्डलाकारो दिक्- समूहः इति माधवी । इति भरतः ॥ तत्- पर्य्यायः । मण्डलम् २ । इत्यमरः । १ । ३ । ६ ॥ (यथा, भागवते । ५ । १८ । १४ । “हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोऽभयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रवालम्&oldid=133488" इत्यस्माद् प्रतिप्राप्तम्