चक्रव्यूहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रव्यूहः, पुं, (चक्रवत् मण्डलाकारेण रचितो- व्यूहः रचनयाधिष्ठापितः सेनासमूह इति यावत् ।) युद्धार्थमण्डलाकारेण सैन्यरचना । (एतस्य रचनालक्षणादिश्चक्रशब्दे द्रष्टव्यः ॥ व्यूहोऽयमभिमन्युवधेप्सुना भगवता द्रोणाचाय्ये- णाभिकल्पितः । यथा, महाभारते । ७ । ३३ । १२ -- २३ । “चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः । तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः ॥ अवस्थानेषु विन्यस्ताः कुमाराः सूर्य्यवर्च्चसः । सङ्घातो राजपुत्त्राणां सर्व्वेषामभवत्तदा ॥ कृताभिसमयाः सर्व्वे सुवर्णविकृतध्वजाः । रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः ॥ सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः । चन्दनागुरुदिग्धाङ्गाः सग्विणः सूक्ष्मवाससः ॥ सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः । तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥ पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् । अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥ अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः । दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः ॥ कर्णदुःशासनकृपैर्वृतो राजा महारथैः । देवराजोपमः श्रीमान् श्वेतच्छत्त्राभिसंवृतः ॥ चामरव्यजनाक्षेपैरुदयन्निव भास्करः । प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः ॥ सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः । सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥ सुतास्तव महाराज ! त्रिंशत्त्रिदशसन्निभाः । गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा । पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रव्यूहः&oldid=133493" इत्यस्माद् प्रतिप्राप्तम्