चक्राङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गः, पुं, स्त्री, (चक्रेण चक्राकारेण अङ्गति गच्छतीति । अङ्ग + अच्) हंसः । इत्यमरः । २ । ५ । २३ ॥ (यथा, महाभारते । ८ । ४१ । २१ । “इदमूचुःस्म चक्राङ्गावचः काकं विहङ्गमाः ॥”- चक्रमङ्गमस्येति व्युत्पत्त्या रथोऽपि ॥ (चक्र) वाकः । यथा, मनुः । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्राम्यकुक्कुटम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्गः&oldid=133503" इत्यस्माद् प्रतिप्राप्तम्