चतुरश्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुरश्रः, त्रि, (चतस्रोऽश्रयोऽस्य । “सुप्रातसुश्व- सुदिवेति ।” ५ । ४ । १२० । इति अच्प्रत्ययेन निपातितः ।) चतुष्कोणः । यथा, -- “चतुरश्रं त्रिकोणं वा वर्त्तुलं चार्द्धचन्द्रकम् । कर्त्तव्यमानुपूर्ब्बेण ब्राह्मणादिषु मण्डलम् ॥” इत्याह्रिकतत्त्वे बौधायनः ॥ लग्नाच्चतुर्थाष्टमलग्नम् । इति दीपिका ॥