चतुर्द्दशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्द्दशी, स्त्री, (चतुर्द्दश + टित्त्वात् ङीप् ।) तिथिविशेषः । सा तु चन्द्रस्य चतुर्द्दशकला- क्रियारूपा । तत्पर्य्यायः । भूता २ । इति तिथ्यादितत्त्वम् ॥ (“सा च शुक्ला पूर्णिमायुता ग्राह्या युग्मात् कृष्णा पूर्ब्बयुता । “कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी । पूर्ब्बविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् । उपवासादिकार्य्येषु एष धर्म्मः सनातनः ॥” इति निगमवचनात् अपराह्णव्यापित्वे तु शुक्ल- चतुर्द्दश्यपि पूर्ब्बविद्धा ग्राह्या ‘चतुर्द्दशी तु कर्त्तव्या त्रयोदश्या युता विभो ! । मम भक्तैर्महाबाहो ! भवेद्या चापराह्णिकी । दर्शविद्धा न कर्त्तव्या राकाविद्धा तथा मुने ॥’ इति स्कन्दपुराणात् मम भक्तैरिति ईश्वरोक्तेः शिवव्रतविषयम् । त्रयोदश्यां दिवातनमुहूर्त्त- चतुर्द्दश्यलाभे तु पद्मपुराणम् । ‘एकादश्यष्टमी षष्ठी उभे पक्षे चतुर्द्दशी । अमावास्या तृतीया च उपोष्याः स्युः परा- न्विताः ॥’ एतद्विषय एव । ‘शिवा घोरा तथा प्रेतासावित्री च चतुर्द्दशी । कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम् ॥’ इति वचनम् ।” इति च तिथ्यादितत्त्वम् ॥) तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “विरुद्धशीलः पुरुषः सरोष- श्चौरः कठोरः परवञ्चकश्च । परान्नभोक्ता परदारचित्त- श्चतुर्द्दशी चेत् जननस्य काले ॥” मासविशेषे तत्र कर्म्माणि यथा । ज्यैष्ठकृष्ण- चतुर्द्दश्यां स्त्रीकर्त्तृकसावित्र्यादिदेवतापूजा स्वामिपूजा च ॥ भाद्रशुक्लचतुर्द्दश्यां अनन्त- पूजा चतुर्द्दशपिष्टकभक्षणं डोरकबन्धनञ्च ॥ कार्त्तिककृष्णचतुर्द्दश्यां चतुर्द्दशशाकभक्षणं चतु- र्द्दशदीपदानं यमतर्पणञ्च ॥ अग्रहायणशुक्ल- चतुर्द्दश्यां गौरीपूजा पाषाणाकारपिष्टकभक्ष- णञ्च ॥ माघकृष्णपक्षे रटन्त्याख्यचतुर्द्दश्यां काली- पूजारुणोदये स्नानञ्च ॥ फाल्गुनकृष्णपक्षे शिव- रात्र्याख्यचतुर्द्दश्यामुपवासः शिवपूजा च ॥ चैत्र- शुक्लपक्षे मदनचतुर्द्दश्यां मदनवृक्षपल्लवेन काम- देवपूजा । इति स्मृतिः ॥