चतुर्द्दोलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्द्दोलम्, क्ली, पुं, (चतुर्भिर्वाहकैर्दोल्यते उत्क्षिप्य नीयते उह्यते इति यावत् । दोलि + कर्म्मणि घञ् । यद्वा, चतुर्भिदण्डैरुपलक्षितं दोलं दोलायमानयानविशेषः ।) स्वनामख्यातयान- विशेषः । यथा, -- “राज्ञो यद्द्विपदं यानं विशेषाख्यमलं विदुः । चतुर्भिरुह्यते यत्तु चतुर्द्दोलं तदुच्यते ॥ भोजस्तु । चतुर्भिर्वाहकैर्द्दण्डैः षड्भिः कुम्भैः सुसंस्थितैः । स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनुत्तमम् ॥ तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् । चतुर्व्विधानां भूपानां चतुर्द्दोलाः प्रकाशिताः ॥ त्रिहस्तसम्मितायामो द्विहस्तपरिणाहवान् । हस्तद्वयोन्नतः प्रोक्तश्चतुर्द्दोलो जयाख्यया ॥ चतुर्हस्तायतो यस्तु सार्द्धद्धन्द्वस्तदन्यथा । चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः ॥ पञ्चहस्तायतो यस्तु त्रिहस्तपरिणाहवान् । तावदेवोन्नतो वीरश्चतुर्द्दोल उदाहृतः ॥ आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः । चतुर्द्दोलो ह्ययं सिंहस्तदर्द्धेनोन्नतः शुभः ॥ सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः । आद्यः समरवर्षासु परः केलिघनात्यये ॥ सर्व्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः । चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥