चन्द्रशेखर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रशेखरः, पुं, (चन्द्रः शेखरे मौलौ यस्य । यद्वा, चदि आह्लादे + रक् । चन्द्रः आह्लादः स्वान- न्दानुभवरूपपरमात्मज्योतिः शेखरे ललाटोर्द्ध्व- भागे यस्य । स्वप्रकाशात्मनां शरीरत्रयोपाधि- वर्ज्जितानां योगीन्द्रपुरुषाणामपि ललाटदेशे सत्यज्ञानानन्दामृतसेतोः परब्रह्मणः स्वाभासक- ज्योतिर्मण्डलस्य प्रकाशमानत्वात् अन्येष्वपि चन्द्रशेस्वरत्वमिति चेन्न । विश्वगुरोर्महादेवा- दन्यत्र पूर्णतमयोगसिद्धेरप्रसिद्धेः । किञ्च महे- श्वरादिशब्दवत् रूढिशक्तितोऽपि सर्व्वयोगीन्द्र- गुरौ भगवति महेश्वरे एव चन्द्रशेखरपदस्य समन्वर्थतेति पूर्ब्बाचार्य्यपादाः ॥) शिवः । इत्य- मरः । १ । १ । ३२ ॥ (यथा, कुमारे । ५ । ५८ । “यदा बुधैः सर्व्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् । तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश ह ॥ वृद्धोचितक्रियां कर्त्तं राजा परमधार्म्मिकः । गते पितरि राजा स वनवासं महाबलः ॥ सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः । सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः ॥ अमरैरिव देवेन्द्रो विजहार श्रिया युतः । एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्वृतिम् ॥ ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे । दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥” इति कालिकापुराणे ४६ अध्यायः ॥ * ॥ (स्वनामख्यातः पण्डितविशेषः । असौ हि सिद्धपुरुषः त्रिवेणीसन्निकर्षस्थवन्द्यपाडाख्यग्रामे १६०० शकस्य प्रारम्भ एव वर्त्तमान आसीत् । अद्यापि तस्य सिद्धिस्थानं तत्रैव वर्त्तते । अयं नानाशास्त्रवेत्ता विशेषतो ज्योतिषशास्त्रेषु लब्धप्रतिष्ठो बभूव । एतत्संकलिता बहवो ग्रन्था अस्मद्देशेऽद्यापि प्रचरन्ति ॥ * ॥) षोडशध्रुवकान्तर्गतनवमध्रुवकः । तद्विवरणं ध्रुवकशब्दे द्रष्टव्यम् ॥ अपि च । “ऊनविंशतिवर्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः । कथितः केन्दुके ताले भवेत् शृङ्गारवीरयोः ॥” इति सङ्गीतदामोदरः ॥ (वटिकौषधविशेषः । “सूतो गन्धष्टङ्गणः सोषणः स्या- देतैस्तुल्या शर्करा मत्स्यपित्तैः । भूयो भूयो भावयेत्तु त्रिवारं वल्लो देयः शृङ्गवेरस्य वारा ॥ सम्यक् तापे वारिभक्तं सतक्रं वृन्ताकाढ्यं पथ्यमेव प्रदिष्टम् । अङ्गे रोगं हन्ति सामं प्रभावात् पित्ताधिक्ये मूर्द्ध्नि वारिप्रयोगः ॥” इति उदकमञ्जरीरसः ॥ “अत्रैव शर्करां त्यक्त्वा शिला च यदि दीयते । गुणैः समो भवेदस्य नाम्ना च चन्द्रशेखरः ॥” इति चन्द्रशेखरो रसः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रशेखर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।2।5

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रशेखर¦ पु॰ चन्द्रः चन्द्रकला शेखरेऽस्य।

१ महादेवेइन्दुभृच्छब्दे

९३

५ पृ॰ दृश्यम्।
“रहस्युपालभ्यतचन्द्रशेखरः” कुमा॰। चन्द्रयुक्तः शेखरोऽस्य।

२ पर्व्वत-भेदे।

३ पौष्यनृपपुत्रे करवीरपुराधीशे नृपभेदेकालिका पु॰

४६ अ॰ तत्कथा यथा
“ततः पुत्रार्थिनं भूर्प प्रसन्नो वृषभध्वजः। ब्रह्मदत्तफलंहस्ते कृत्वेदं तमुवाह ह। ईश्वर उवाच। इदं फलंव्रह्मदत्तं विभज्य नृपते! त्रिधा। भोजयैताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः। ततः प्रवृत्ते भवत एतासुऋतुसङ्गने॥ आथास्यन्ति च गर्भांस्तु भार्य्यास्ते युग-पन्नृप!। काले प्राप्ते च युगपत् प्रसवो योषितां तव। भविष्यति नृपश्रेष्ठ! तदेवं त्वं करिष्यसि। एकस्याजठरे शीर्षं भार्य्यायास्ते भविष्यति। अपरस्यास्तथाकुक्षौ मध्यमागो भविष्यति। अधोनाभ्यास्तु यो भागःसोऽपरस्यां भविष्यति। ततः खण्डत्रयं भूप! यथास्थानंपृथक पृथक्। योजयिष्यसि पश्चात्ते पुत्र एको मवि-ष्यति। तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति। तेनैव नाम्ना सा ख्यातिं गमिष्यति च भूपते!। ” इत्यु-पक्रमे
“इत्युक्त्वा स महादेवस्तासां गर्भात् खयं तदा। संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात्। ततःफलेस्वयं देवः प्रविवेश वृषध्वजः। तत्क्षणात् तत्फलं भूतंत्रिभाग स्वयमेव ह। पौष्यस्तत्फलमादाय मुदितःसह भार्य्यया। प्रययौ मन्दिरं हृष्टोह्यनुज्ञाप्य वृष-ध्वजम्। ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम्। तत् फलं नृपशार्द्दूलात् गर्भाश्चाप्याहिताःशुभाः। सम्पूर्णेगर्भकाले तु गर्भेभ्यः समजायत। खण्डत्रयं पृथक्राजा यथा भर्गेण भाषितम्। तच्च खण्डत्रयं पौष्योयथास्थानं नियोज्य चं। एकं पिण्डं चकाराशु तत्रपुत्रो व्यजायत। तस्य शीर्षे तदा राजन् सहजेन्दुकलाशुभा। विरराज यथा स्वच्छा शरत्काले कला विधोः। तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम्। सिंह-ग्रीवं विशालाक्षं दीर्घायतभुजं तदा। दृष्ट्वा पौष्योऽथ भार्य्याभिस्तिसृभिः सह संमुदम्। लेभे दरिद्रःसत्कोषं प्राप्येव विपुलं ततः। तस्य ढामाकरोद्राजाब्राह्मणैः स्वैः पुरोहितैः। चन्द्रशेखर इत्येवं कान्त्याचन्द्रम सा समः। ववृधे स महामागः प्रत्यहं चात्य-राच। कलाभिरिव तेजस्वी शरदीव निशाकरः। एवं तिसृणामम्बानां गर्भे जातो यतोहरः। अतस्त्र्य-[Page2892-b+ 38] म्बकनामाऽभूत् प्रथितो लोकदेवयोः” इत्युपक्रमे
“सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः। सार्वभौमो नृपोभूत्वा राजभिः परिषेवितः। अमरैरिव देवेन्द्रो विजहार श्रिया युतः। एवं पौष्यसुतोभूत्वा त्र्यम्बकः प्राप्य निर्वृतिम्। ब्रह्मावर्त्ताह्वये रम्येकरवीराह्वये पुरे। दृशद्वतीनदीतीरे राजा भूत्वा मुमोदह”।
“ऊनविंशतिवर्ण्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः। कथितःकेन्दुके ताले भवेत् शृङ्गारवीरयोः” संगी॰ दा॰ उक्ते

४ ध्रुवकभेदे।

५ चट्टलदेशस्थमहापीठे

६ तत्रस्थे भैरवभेदे
“चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः। व्यक्तरूपा भगवतीभवानी तत्र देवता”।
“विशेषतः कलियुगे वसामिचन्द्रशेखरे” तन्त्रचूडामणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रशेखर¦ m. (-रः)
1. A name of SIVA.
2. The name of a mountain; one so called is amongst the hills of Aracan. E. चन्द्र the moon, and शेखर a crest; whose crest is the moon. चन्द्रः चन्द्रकला शेखरे अस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रशेखर/ चन्द्र--शेखर m. = -मुकुटHariv. 14838 Kum. v , 58

चन्द्रशेखर/ चन्द्र--शेखर m. N. of a minister (father of the author of Sa1h. )

चन्द्रशेखर/ चन्द्र--शेखर m. of the author of a Comm. on S3ak.

चन्द्रशेखर/ चन्द्र--शेखर m. of the author of the play मधुरा-निरुद्ध

चन्द्रशेखर/ चन्द्र--शेखर m. of a prince Katha1s. cxxiii , 114

चन्द्रशेखर/ चन्द्र--शेखर m. of a mountain(See. -पर्वत) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see शिव. Br. III. २४. ६०; २५. 2, ४४; ३२. १८; IV. ३०. ७१; ३४. ९१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRAŚEKHARA : A King (son of Pauṣya). The following story about his birth is told in the Padma Purāṇa.

Though married for a long time Pauṣya did not have an issue. He began worshipping Śiva to be blessed with a son. Śiva was pleased at this and he gave him a fruit which he divided equally among his three wives. In due course the three wives delivered. But, to get the full and complete form of a child the three children had to be joined together, and so the parts were unified. This boy was Candraśekhara. Thus Candraśekhara acquired the name Tryaṁbaka.

Candraśekhara married Tārāvatī, daughter of Kaku- tstha, a King of the solar dynasty. On account of the curse of Kapotamuni two sons, Bhṛṅgi and Mahākāla were born to Tārāvatī in Vetāla yoni and Bhairava yoni respectively. Dama, Uparicara and Alarka were sons born to Candraśekhara himself. (Aurasaputras).


_______________________________
*2nd word in right half of page 174 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रशेखर&oldid=429431" इत्यस्माद् प्रतिप्राप्तम्