चित्तप्रसादन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्तप्रसादन¦ न॰ चित्तस्य प्रसादनं प्रसन्नताकरणम्। पात-ञ्जलोक्ते चित्तप्रसन्नतासम्पादके मैत्र्यादिभाबनाजन्येचित्रसंस्कारभेदे मैत्र्यादिमावनानां च तथात्वं पात॰सूत्रभाष्यादावुक्तं यथा
“यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दिश्यते, तत्कथं?--भा॰
“मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम्” सू॰।
“तत्र सर्व्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्,दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्। अपुण्य-शीलेषूपेक्षाम्। --एवमस्य भावयतः शुक्लोधर्म्मौपजायते-ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा॰।
“अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसम्पत्त्य-नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपादयितुमुपक्रमते यस्य चित्तस्यापस्थितस्येदमिति। मैत्रीकरुणेत्यादि प्रसादनान्तम्। सुखितेषु मेत्री सौ-हार्द्दं भावयत ईर्ष्याकालुष्यं निवर्त्तते चित्तस्य। दुः-खितेषु च करुणामात्मनीव परस्मिन् दुःस्यप्रहाणेच्छाभावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते। पुण्यशीलेषु प्राणिषु मुदितां हर्षं मावयतः असूयाका-लुष्यं चेतसो निवर्त्तते। अपुण्यशीलेषु चोपेक्षां मा-ध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते। ततश्चास्यराजसतामसधर्मनिवृत्तौ सात्विकः शुक्लोधर्म उपजायते। सत्वोत्कर्षसम्पन्नः सम्मवति। वृत्ति निरोधपक्षे तस्यप्रसादस्वामाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यमाणभ्यउपायेभ्यः एकाग्रं स्थितिपदं लभते। असत्यां पुनर्मैत्र्या-दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते” विव॰। [Page2940-b+ 38] करणे ल्युट् ङीप्। चित्रप्रसादनी मैत्र्यदिभाव-नायाम्।
“तत् प्रचिणु चित्तप्रसादनीश्चतसो मैत्र्यादिभावनाः” वीरच॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्तप्रसादन/ चित्त--प्रसादन n. gladdening of mind MBh. iii , 1786 Yogas. i , 33.
