सामग्री पर जाएँ

चित्तमूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चित्तमूमि¦ स्त्री चित्तस्य भूमिरवस्था। पातञ्जलप्रसिद्धे

१ चितस्यावस्थाभेदे तद्भूमयश्च नानाविधाः तत्र चित्तशब्देदर्शिता क्षिप्तमूढविक्षिप्तैकाग्रताः चतसः उक्ताः। मधुमत ज्योतिष्मती विशोका ऋतम्मरा च समाधिभूमय-श्चान्यास्ताश्चचित्तपिक्षेपशब्दे तत्तच्छब्दे च दृश्याः। साधनपादे च सूत्रभाष्यादौ सप्ताम्या अप्युक्ताः यथा
“सप्तधा प्रान्तभूमिः प्रज्ञा” सू॰।
“तस्येति। प्रत्युदितख्यातेः प्रत्थाम्नायः सप्तधेति अ-शुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्थया{??}रानुत्पादे सतिसप्तप्रकारैव प्रज्ञा विवेकिनो भवति। तद् यथा परिज्ञातंहेयं, नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवो न पुन-रेतेषुक्षेतव्यमस्ति, साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपोहानोपायैव्येधा चतुष्ठयीकार्य्याविमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिता-धिकारा बुद्धिगुणा गिरिशिखरकृटच्युताइव ग्रावाणो-निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तंगच्छन्ति। न चैषां विलीनानां पुनरस्त्युत्पादः प्रयो-जनाभावादिति एतस्यामवस्थायां गुणसम्बन्धातीतस्व-रूपमात्रज्यीतिरमलः केवली पुरुष इत्येतां सप्तविधाप्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशलैत्याख्यायते पतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वा-दिति सिद्धा भवति विवेकख्यातिर्हानोपायः इति” भा॰।
“पिवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्येत्यादि। व्याचष्टे तस्येति प्रत्युदितख्यातेर्वर्त्तमानख्यातेर्योभिनः प्रत्याम्नायः परामर्शः अशुद्धिरेवावरणं चित्तसुत्वस्यतदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ताम-सराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनि-ष्ठामापन्नस्य सप्तप्रकारेव प्रज्ञा विवेकिनो भवति विपयभे-द्रात् प्रज्ञाभेदः। प्रकष्टोऽन्तो यासां मूमीनामवस्थानां तास्त-थोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्या-प्रज्ञाया विवेकख्यातेः सा तथोक्ता ता एव सप्त प्रकाराःप्रज्ञाभूमीरुदाहरति तद्यथेति। तत्र पुरुपप्रयत्ननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति परिज्ञातंहेयं यावत् किल प्राधानिकं तत्सर्व्वं परिणामतापसं-[Page2941-a+ 38] स्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति, हेयं तत्परिज्ञा-तम्। प्रान्ततां दर्शयति नास्य पुनः किञ्चिदपरिज्ञेय-मस्ति। द्वितीयामाह क्षीणा इति। प्रान्ततामाहन पुनरिति। तृतीयामाह साक्षातकृतं प्रत्यक्षेणनिश्चितं यथा संप्रज्ञातावरवायामेव निरोधसमाधिसाध्यं हानं व पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः। चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपोहा-नोपायः, नास्याः परं भावनीयमस्ति इति शेषः। एषाचतुष्टयी कार्य्याविमुक्तिः समाप्तिकार्य्यतता प्रयत्रनिष्पा-द्या दर्शिता। क्वचित् पाठः कार्य्यविमुक्तिरिति कार्य्यान्त-रेण विमुक्तिः प्रज्ञाया इत्यर्थः। प्रयत्ननिष्पाद्यामुक्त्वातद्रनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्त-विमुक्तिस्तु त्रयी इति। प्रथमामाह चरिताधिकाराबुद्धिकृतमोगापवर्गकार्येव्यर्थः। द्वितीयामाह गुणाइतिप्राव्यतामाह न चैषामिति। तृतीयामाह एतस्या-मतस्यायामिति एतस्यामवस्थायां जीवन्नेव पुरुषःकुशलोमुक्त इत्युच्यते चरमदेहत्वादित्याह एतमिति। अनौप{??}रिकं मुक्तमाह प्रतिप्रसवे प्रधानलयेऽपिचित्तस्य मुक्तः कुशल इत्येष भवति गुणातीतत्वादिति’ विवरणम्। चित्तमेव भूमिः क्षेत्रम्।

२ चित्ररूपक्षेत्रेतस्मिंश्च मैत्रीकरुणामुदितोपेक्षारूपैः संस्कारैः संस्कृतेसमाधिलाभः इति योगाशास्त्रे प्रसिद्ध्वम्

"https://sa.wiktionary.org/w/index.php?title=चित्तमूमि&oldid=364777" इत्यस्माद् प्रतिप्राप्तम्