सामग्री पर जाएँ

चित्रदीप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चित्रदीप¦ पु॰ पञ्चदशीप्रकरणान्तर्गते दीपभेदे
“यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्। परमात्मनिविज्ञेयं तथावस्थाचतुष्टयम्। यथा धौतो घट्टितश्चलाञ्छितो रञ्जितः पटः। चिदन्तर्यामिसुत्राणि विराडात्मा तथेष्यते। स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्न-विलेपनात्। मस्याकारैर्लाञ्छितः स्यात् रञ्जितो वर्णपूरणात्। स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः। सूत्रात्मा स्थूलसृष्ट्येष विराडित्युच्यते परः। ब्रह्मा-द्यास्तम्बपर्य्यन्ताः प्राणिनो{??}त्र जडा अपि। उत्तमा-धमभावेन वर्त्तन्ते पटचित्रवत्। चित्रार्पितमनु-ष्याणां वस्त्राभासाः पृथक् पृथक्। चित्राधारेण वस्त्रेणसदृशा इव कल्पिताः। पृथक् पृथक् चिदामासाश्चैतन्याध्यस्तदेहिनाम्। कल्पान्तजीवनात्मानोबहुधासंसरन्त्यमी। वस्त्राभाषा स्थितान् वर्णान् यद्वदाधारवस्त्रगान्। विदन्त्यज्ञास्तथा जीवं संसारं चिद्गतंविदुः” इत्युपक्रमे।
“जगच्चित्रं खचैतन्ये पटे चित्रमि-वार्पितम्। मायया तदुपक्ष्यैव चैतन्यम् परिशिष्यताम्। चित्रदीपमिमं नित्यं ये तु संदधते बुधाः। पश्यन्तोऽपिजगच्चित्रं ते मुह्यन्ति न पूर्बवत्” पञ्चदशी।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चित्रदीप/ चित्र--दीप m. N. of a chapter( प्रकरण)of the पञ्चदशी.

"https://sa.wiktionary.org/w/index.php?title=चित्रदीप&oldid=365401" इत्यस्माद् प्रतिप्राप्तम्